सिद्धान्तज्योतिषे यन्त्रविज्ञानम्

Authors

  • Kapildev Bhattarai NSU Kalika Sanskrit Vidyapeeth, Gaidakot

DOI:

https://doi.org/10.3126/anveshana.v3i1.82310

Keywords:

यन्त्रविज्ञानम्, फलकयन्त्रम्, गोलयन्त्रम्, गोलाध्यायः, दूरवीक्षणयन्त्रम्

Abstract

ज्यौतिषजगति भास्कर इव भासमानेन विदुषा भास्कराचार्येण पाटीगणितरूपं लीलावतीगणितम्, अव्यक्तगणितरूपं बीजगणितं, सिद्धान्तशिरोमणिः, करणकूतुहलमिति ग्रन्थचतुष्टयं मुख्यरूपेण विनिर्मितम् । स्वजन्मस्थानकालरचनादिविषये गोलाध्याये प्रश्नाध्यायस्यान्तेऽऽत्मीयः परिचयः प्रदानेनानेन स्वजन्मसमय-स्थानादिविषये विवादस्याऽवसरो न प्रकटितः । १०३६-शकाब्दे जनीं लब्ध्वा षट्त्रिंशद्वर्षीयाऽवस्थायामनेन सिद्धान्तशिरोमणेर्रचना कृतेति स्वयमेवोक्तं भास्करेण । सिद्धान्तशिरोमणौ गणित-गोलाध्यायौ इति द्वौ विभागौ वर्तेते । गोलाध्याये स्थितेषु चतुर्दशाध्यायेषु यन्त्राध्यायोऽपि एकोऽध्यायोऽस्ति । यन्त्राध्याये गोल-नाडीवलय-यष्टि-शङ्कु-घटि-चक्र-चाप-तुर्य-फलक-धी-यन्त्राणां निर्माणविधिर्भास्कराचार्येण सुस्पष्टमुल्लिखितः । दिनगतकालावयवा ज्ञातुमेवैतेषां यन्त्राणां प्रयोजनमस्तीति भास्करोक्तिः प्राप्यते । पाश्चात्यजगति शकाब्दस्य १४८६-तमे वर्षे इटालीदेशस्य पिसा-नामकस्थाने जातो ग्यालिलियोग्यालिलिः आधुनिकविज्ञानस्य जनक इति नाम्नापि प्रसिद्धोऽस्ति । मुख्यतया दूरदर्शकयन्त्रस्यऽऽविष्कारेण ग्रहाणाम् उपग्रहान्, शनिग्रहस्य वलयान्नपि प्रादर्शयननेन बृहस्पतेश्चत्वार उपग्रहाः सन्तीत्युद्घोषितम् । किन्तु भास्कराचार्येण १०७२-तमे रचिते सिद्धान्तशिरोमणौ जलस्थ-स्थलस्थ-नभस्थ-वस्तूनां दूरच्छ्रितिनिर्धारणाय समर्थानि नैकविधानि यन्त्राणि निर्मितानि सन्ति । तेन पाश्चात्याविष्कारात् पूर्वमेव पौरस्त्यज्योतिषे यन्त्रनिमार्णस्य परम्परा विकसिता चासीदिति स्पष्टं भवति । अस्मादेव ज्ञायते यन्त्रनिर्माणस्य परम्परा पौरस्त्यसिद्धान्तज्योतिषशास्त्रादेव पाश्चात्य जगति सञ्जातेति स्वतः सिद्धं भवति ।

Downloads

Download data is not yet available.
Abstract
61
PDF (नेपाली)
32

Author Biography

Kapildev Bhattarai, NSU Kalika Sanskrit Vidyapeeth, Gaidakot

Associate Professor, Department of Sahitya tatha Siddhant Jyotish 

 

 

Published

2025-07-29

How to Cite

Bhattarai, K. (2025). सिद्धान्तज्योतिषे यन्त्रविज्ञानम् . अन्वेषणा Anveshana, 3(1), 19–29. https://doi.org/10.3126/anveshana.v3i1.82310

Issue

Section

Articles