शब्दतत्त्वनिर्वचनम्
DOI:
https://doi.org/10.3126/anveshana.v3i1.82312Keywords:
कूटस्थः, शब्दब्रह्म, स्फोटः, विवर्तः, अक्षरम्Abstract
आलेखोऽयं शब्दतत्त्वनिर्वचनाय प्रस्तुतो दृश्यते । शब्दतत्त्वनिरूपणप्रसङ्गेऽनेकेषां दार्शनिकानां मतभेदो दरीदृश्यते । नैयायिकानां शब्दतत्त्वविमर्शे वर्णसमूहरूपस्य मानसव्यापारस्य शब्दत्वमभीष्टं तत्र च संस्कारद्वारा घटादौ पूर्वपूर्ववर्णवत्त्वमव्यवहितोत्तरत्वेन जायमाने शब्दरूपस्यापि प्रत्यक्षत्वमिति वर्णितम् । मीमांसकानां कृते तु प्रत्येकं वर्णस्य शब्दरूपत्वमस्ति, पदान्यपि वर्णसमूहरूपाण्येव सन्तीति प्रस्तुतम् । परन्त्वेतेषां मतानि वैयाकरणमतेन सम्यगालोचितानि । प्रत्येकं वर्णस्य वर्णसमूहस्य वा संस्कारवतो पि पदस्य शब्दत्वमस्वीकरणीयमस्ति । उत्पत्तिनाशवद्वर्णसमूहस्यानित्यत्वेन पदप्रत्यक्षाभावात् । तथैव संस्कारस्थितेश्चापि विपरीतोद्बोधे सति अन्यार्थबोधान्नैयायिकादीनां मतमप्यत्र सम्यगालोचितं दृश्यते । तथैव मुख्यरूपेण सिद्धान्तरूपेण च शब्दतत्त्वनिरूपणे वैयाकरणसम्मतः स्फोटवादोऽत्र स्थापितः । यद्यपि ध्वनि-नादरूपस्यापि चर्चात्र कृतास्ति, परं निष्कर्षतो मध्यमानादव्यङ्ग्यस्य स्फोटस्य शब्दत्वं स्वीकृतमस्ति । अष्टविधानां स्फोटानां प्रयोगदशायां व्यवहारेऽपि मुख्यतो शब्दनित्यतावादीनां वैयाकरणानां वाक्यस्फोट एव प्रामुख्यं भजते । तथैव पातञ्जलानुगामिनां भर्तृहर्यादीनां स्वीकृतं शब्दब्रह्माप्यत्र चर्चितम् । यस्य ब्रह्मणो विवर्तरूपं समग्रं चराचरं जगत्तादृशं सर्वव्यापकं ब्रह्म शब्द एवास्तीति निष्कर्षायितम् । शब्दनित्यतायामेव तात्पर्यादपशब्दस्थाने साधुशब्दा प्रयोक्तव्या इति सर्वे सर्वपदादेशाः इत्यात्मको व्यवहारोऽपि दर्शितः । एत एव विषया अस्मिन्नालेखे प्रामुख्येन दर्शिता विद्यन्ते ।