विषयविवेचनदृष्ट्या व्याकरणशास्त्रस्यानुशीलनम्
DOI:
https://doi.org/10.3126/anveshana.v3i1.82315Keywords:
सुरभारती, डमरुध्वनेः, वर्णसमाम्नायम्, आलोड्य, ईषद्विवृतः, विवृतः, वाक्तत्त्वम्Abstract
प्रस्तुतेऽस्मिन्नालेखे सुरभारत्याः शब्दसाधुत्वनिष्पादनव्यवस्थायां व्याकरणशास्त्रे कीदृशी प्रक्रियाऽवलम्बिता ? कानि च शब्दसाधुत्वनिष्पादकानि तत्त्वानि ? पदत्वनिष्पादनं कथम् ? पदानां संयोजनेन वाक्यनिर्माणप्रक्रिया च कीदृशी ? इत्यादिबहुविधजिज्ञासापरिपूत्र्यर्थं पुस्तकालयीयविधिमवलम्ब्य समुपलब्धानां सामग्रीणां समुचितप्रयोगपूर्वकं विश्लेषणात्मकाध्ययनस्य प्रयासो विहितो वर्तते । शब्दसाधुत्वनिष्पादकेन सूत्रात्मकविधिना विश्वस्मिन् विद्यमानानां व्याकरणानां मध्ये पाणिनीयव्याकरणे मुख्यतः के के ? विषयाः प्रतिपादिताः इति तथ्यं प्रस्तोतुं वर्णानामुत्पत्तिस्थानप्रयत्नादिवर्गीकरणं तिङन्तकृदन्ततद्धितान्तसमस्तपदनिष्पादनप्रक्रिया सन्धिद्वारा पदनिष्पत्तिप्रक्रिया तथा सविश्लेषणं कारकीयप्रक्रियया वाक्यनिर्माणविधिश्चात्र प्रदर्शितो वर्तते । वाग्व्यवहारे प्रयुज्यमानपदानां बाह्याभ्यन्तरतत्वविवेचनपूर्वकं वैयाकरणानां स्फोटसिद्धान्तचिन्तनप्रक्रमे परादिचतुर्विधवाचां वर्गीकरणं शब्दनित्यानित्यत्वविषयकविवेचनं विधाय व्याकरणस्य प्रमुखविवेच्यविषयाः निर्दिष्टा विद्यन्ते । निष्कर्षेणानेन व्याकरणस्य विषयविवेचनेऽध्येतृणां सौकर्यं भविष्यतीति मे विश्वासः ।