अभिज्ञानशाकुन्तले पर्यावरणदृष्टिः

Authors

  • Prakash Paudel NSU Shree Vinduwasini Sanskrit Vidyapeeth (Campus), Pokhara, Nepal

Keywords:

पर्यावरणम्, प्रकृतिप्रेम, विनाशः, वृक्षसेचनम्, संरक्षणचेतना

Abstract

प्रस्तुतालेखः कालिदासप्रणीते ‘अभिज्ञानशाकुन्तलम्’ इति नाटके पर्यावरणदृष्टिविवेचने केन्द्रितोऽस्ति । समष्टिविधेरुपयोगेन कालिदासप्रणीताद् अभिज्ञानशाकुन्तलात् प्राथमिकस्रोतसः सामग्य्रस्तत्सम्बद्धलेखरचनाभ्यो द्वितीयकस्रोतसश्च सङ्कलिताः सामग्य्रो गुणात्मकपद्धत्या विश्लिष्य निष्कर्षिताः सन्ति । तन्निष्कर्षो वर्तते यत् - अभिज्ञानशाकुन्तले प्रकृतेर्मानवीकरणेन, मानवस्य प्रकृतीकरणेन, आलम्बनोद्दीपनोपमानवस्तुसङ्केतव्यञ्जकादिषु अनेकानेकस्वरूपेषु प्रकृतिवर्णनेन च प्रकृतिमानवयोरभेद्यः, प्रगाढश्च सम्बन्धः प्रकाशितो वर्तते, प्राकृतिकोपकरणानि मानववत् दृश्यन्ते चेत् प्रकृतौ आत्मदृष्टिरायाति, प्रकृतिविनाशाय च मानवो नोत्सहते, तेन प्रकृतिविनाशो न्यूनताङ्गच्छतीति । एवञ्च नाटके अनेकशो वृक्षाः, वनस्पतयः, पशवः, पक्षिणश्च संरक्षणीया इति चेतना जागरिता प्राप्यते, प्रकृतेरधिकदोहनं विनैव सुखमयं सुन्दरञ्च जीवनं जीवितुं शक्यते, न जातु कामः कामानामुपभोगेन शाम्यति इति पौरस्त्यदर्शननिर्देशितं मानवजीवनं सुखेनाग्रे नेतुं यदतीवावश्यकं तदेव प्रकृतितः ग्रहणीयम्, अधिकाधिकसुखेच्छया प्रकृतेरत्यधिकदोहनं क्रियते चेत्तद्विनाशायैव भवति, एतेन सततसुखलाभो मृगतृष्णायां प्रणयभाव एव भविष्यति, प्रकृतिरक्षणे नार्यः पुरुषेभ्योऽधिकसचेष्टा भवन्ति, संरक्षिता प्रकृतिरपि चेतनानचेतनान् सर्वानपि रक्षति, मानवः प्रकृतिसंरक्षणसंवर्धनेनैव जीवश्रेष्ठो भविता, शासकैः पर्यावरणसंरक्षणसंवर्धनादिना सततविकासं विधाय प्रकृतिहिताय सदा यतनीयमित्यादयः पर्यावरणसंरक्षणसम्बद्धा विचाराः, मान्यताश्च प्रस्तुता लभ्यन्ते, नाटकीये प्रकृतिचित्रणे, तपोवनवर्णने, वस्तुविस्तारे च पर्यावरणदृष्टिर्मुखरिता वर्तते, अत नाटकमिदं पर्यावरणीयचेतनादृष्ट्या समुल्लेखनीयमस्तीति च निष्कर्षितमस्ति । एतन्निष्कर्षः सम्बद्धविषयकाणां विद्यार्थिनां जिज्ञासूनाञ्चोपयोगी भविष्यतीत्यपेक्षितमस्ति ।

Abstract
156
PDF (Nepali)
0

Author Biography

Prakash Paudel, NSU Shree Vinduwasini Sanskrit Vidyapeeth (Campus), Pokhara, Nepal

Lecturer, Department of Sahitya (Sanskrit Literature)

Downloads

Published

2025-07-29

How to Cite

अभिज्ञानशाकुन्तले पर्यावरणदृष्टिः . (2025). अन्वेषणा Anveshana, 3(1), 56-70. https://doi.org/10.3126/anveshana.v3i1.82316

Issue

Section

Articles

How to Cite

अभिज्ञानशाकुन्तले पर्यावरणदृष्टिः . (2025). अन्वेषणा Anveshana, 3(1), 56-70. https://doi.org/10.3126/anveshana.v3i1.82316