श्रीमद्देवीभागवतगतशान्तरसानुशीलनम्

Authors

  • Bharat Bhattarai NSU Ruru Sanskrit Vidyapeeth, Ridi, Gulmi, Nepal

Keywords:

अनुभावः, आलम्बनविभावः, उद्दीपनविभावः, शान्तरसः, सञ्चारिभावः, स्थायिभावः

Abstract

अस्मिन्नालेखे श्रीमद्देवीभागवतमहापुराणस्य परिचयः, देवीभागवतस्य स्वरूपम्, शान्तरसस्य परिचयः, देवीभागवतगतशान्तरसस्थितिश्च निरूपितास्ति । प्रथमन्तावद् द्वादशस्कन्धेषु विभक्तस्य देवीभागवतस्य प्रथमस्कन्धस्य शान्तरसानुशीलनं विहितमस्ति । प्रथमस्कन्धे प्रथमाध्यायस्य सूतशौनकसंवादप्रसङ्गे शान्तरसस्थितिर्विद्यते । एवञ्च द्वितीयस्कन्धे द्वितीयाध्यायस्य सत्यवतीव्यासप्रसङ्गे, तृतीयस्कन्धे तृतीयाध्यायस्य व्यासजनमेजयप्रसङ्गे, चतुर्थस्कन्धेऽष्टमाध्यायस्य च्यवनप्रह्लादप्रसङ्गे, पञ्चमस्कन्धे सुरथराजवर्णने, षष्ठस्कन्धे ब्रह्मकृतमायावर्णनसन्दर्भे, सप्तमस्कन्धे च्यवनर्षिवर्णनसन्दर्भे, अष्टमस्कन्धे नारदकृतनारायणस्तवने, नवमस्कन्धे तुलसीतपश्चर्यावर्णने, दशमस्कन्धे नारदकृतनारायणप्रार्थनायाम्, एकादशस्कन्धे बृहद्रथप्रसङ्गे, द्वादशस्कन्धे गौतमर्षिकृतब्राह्मणसत्कारे शान्तरसस्थितिः प्रस्तुता । अत्र वर्णितानां सूतशौनकव्यासनारदजनमेजयसुरथराजसमाधिवैश्यादिपात्राणां देवीविषयिणी रतिः शान्तरसं प्रति गच्छन्ती दृश्यत इति निष्कर्षः ।

Abstract
135
PDF (Nepali)
0

Author Biography

Bharat Bhattarai, NSU Ruru Sanskrit Vidyapeeth, Ridi, Gulmi, Nepal

Lecturer, Department of Sahitya (Sanskrit Literature)

Downloads

Published

2025-07-29

How to Cite

श्रीमद्देवीभागवतगतशान्तरसानुशीलनम् . (2025). अन्वेषणा Anveshana, 3(1), 71-81. https://doi.org/10.3126/anveshana.v3i1.82317

Issue

Section

Articles

How to Cite

श्रीमद्देवीभागवतगतशान्तरसानुशीलनम् . (2025). अन्वेषणा Anveshana, 3(1), 71-81. https://doi.org/10.3126/anveshana.v3i1.82317