श्रीमद्देवीभागवतगतशान्तरसानुशीलनम्

Authors

  • Bharat Bhattarai NSU Ruru Sanskrit Vidyapeeth, Ridi, Gulmi, Nepal

DOI:

https://doi.org/10.3126/anveshana.v3i1.82317

Keywords:

अनुभावः, आलम्बनविभावः, उद्दीपनविभावः, शान्तरसः, सञ्चारिभावः, स्थायिभावः

Abstract

अस्मिन्नालेखे श्रीमद्देवीभागवतमहापुराणस्य परिचयः, देवीभागवतस्य स्वरूपम्, शान्तरसस्य परिचयः, देवीभागवतगतशान्तरसस्थितिश्च निरूपितास्ति । प्रथमन्तावद् द्वादशस्कन्धेषु विभक्तस्य देवीभागवतस्य प्रथमस्कन्धस्य शान्तरसानुशीलनं विहितमस्ति । प्रथमस्कन्धे प्रथमाध्यायस्य सूतशौनकसंवादप्रसङ्गे शान्तरसस्थितिर्विद्यते । एवञ्च द्वितीयस्कन्धे द्वितीयाध्यायस्य सत्यवतीव्यासप्रसङ्गे, तृतीयस्कन्धे तृतीयाध्यायस्य व्यासजनमेजयप्रसङ्गे, चतुर्थस्कन्धेऽष्टमाध्यायस्य च्यवनप्रह्लादप्रसङ्गे, पञ्चमस्कन्धे सुरथराजवर्णने, षष्ठस्कन्धे ब्रह्मकृतमायावर्णनसन्दर्भे, सप्तमस्कन्धे च्यवनर्षिवर्णनसन्दर्भे, अष्टमस्कन्धे नारदकृतनारायणस्तवने, नवमस्कन्धे तुलसीतपश्चर्यावर्णने, दशमस्कन्धे नारदकृतनारायणप्रार्थनायाम्, एकादशस्कन्धे बृहद्रथप्रसङ्गे, द्वादशस्कन्धे गौतमर्षिकृतब्राह्मणसत्कारे शान्तरसस्थितिः प्रस्तुता । अत्र वर्णितानां सूतशौनकव्यासनारदजनमेजयसुरथराजसमाधिवैश्यादिपात्राणां देवीविषयिणी रतिः शान्तरसं प्रति गच्छन्ती दृश्यत इति निष्कर्षः ।

Downloads

Download data is not yet available.
Abstract
73
PDF (नेपाली)
25

Author Biography

Bharat Bhattarai, NSU Ruru Sanskrit Vidyapeeth, Ridi, Gulmi, Nepal

Lecturer, Department of Sahitya (Sanskrit Literature)

Published

2025-07-29

How to Cite

Bhattarai, B. (2025). श्रीमद्देवीभागवतगतशान्तरसानुशीलनम् . अन्वेषणा Anveshana, 3(1), 71–81. https://doi.org/10.3126/anveshana.v3i1.82317

Issue

Section

Articles