वैदिकवाङ्मये व्याकरणसम्बद्धभाषिकचिन्तनम्
DOI:
https://doi.org/10.3126/anveshana.v3i1.82323Keywords:
ऐन्द्रसम्प्रदायः, धातुजः, प्रातिशाख्यानि, वेदाङ्गानि, वैदिकसंहिताAbstract
‘वैदिकवाङ्मयेषु व्याकरणसम्बद्धभाषिकचिन्तनम्’ इति शीर्षकेण शोध–लेखस्य अध्ययनक्षेत्रं वैदिकसंस्कृते विकसिता व्याकरणसम्बद्धभाषिक–चिन्तन–परम्परा अस्ति । अस्मिन् अनुसन्धाने वैदिक–लौकिक–वाङ्मयेषु कीदृशा व्याकरणसम्बद्धभाषिकविचाराः अभवन् ? एतेषु ग्रन्थेषु भाषाविचारेषु के सादृश्या भेदाश्च सन्ति ? इत्यादयः शैक्षणिकसमस्यासु केन्द्रितोऽस्ति । अस्मिन् वैदिकभाषापरम्परायाः सुदृढीकरणा वैदिकसंहिता, वेदव्याख्यानार्थं रचितानि ब्राह्मणानि, आरण्यकानि, उपनिषदः, वेदङ्गानि, प्रातिशाख्यानि, शिक्षाग्रन्थाश्चेत्यादयः, वैदिककालस्य कृतयः, लौकिकसाहित्यस्यान्तर्गतानां पाणिनिपूर्वव्याकरणगतभाषाविचाराश्च अन्तर्भवन्ति । पाणिनिकालस्य त्रिमुनीनामाचार्याणां व्याकरणीयाः कृतयः, पाणिनेरुत्तरवर्तिनश्च विविधाचार्याणां विचाराः सन्ति । अस्मिन् वैदिकसाहित्ये उल्लिखितध्वनि–अक्षर–शब्द–व्युत्पत्ति–शब्दवर्ग–धातु–प्रातिपदिकेत्यादयो विषयाः तथा च लौकिकसाहित्ये प्रकृतिप्रत्ययस्य अवधारणा, भाषायाः चतुर्णामवस्थानां वर्णनम्, परा, पश्यन्ती, मध्यमा वैखरीणाञ्च प्रतिष्ठापनम्, शब्दवर्गाणां स्थापना, शब्दार्थसम्बन्धः, शब्दकोशलेखनम्, शब्दानां व्युत्पत्तिः, उच्चारणसम्बन्धी धारणा, उच्चारणस्य बोधः, स्फोटस्य कल्पना इत्यादीनां भाषाव्याकरणगतस्थितीनामन्वेषणं कृतमस्ति । अस्य लेखस्य निर्माणार्थं गुणात्मकरूपरेखान्तर्गतं वर्णनात्मकपद्धतिः स्वीकृता अस्ति । पूर्वीयवाङ्मयविषये अध्ययनस्य सामग्रीः गौणस्रोतरूपेण उपयुज्यते, आवश्यकव्याख्याविश्लेषणेन सह निष्कर्षाः च गृह्यन्ते । आधुनिकव्याकरणे, व्युत्पत्तिशास्त्रे, प्रकृतिप्रत्यये, धातौ, शब्दवर्गे, कारके, विभक्तिषु च प्रयुक्तानां शब्दानां विकासः संस्कृतव्याकरणात् एव इति भाति ।