श्रीरामानुजाचार्यकृतगीताभाष्यद्वितीयाध्यायप्रयुक्तकतिपयसमस्तपदानां वर्गीकरणविश्लेषणे
DOI:
https://doi.org/10.3126/anveshana.v3i1.82325Keywords:
गीताभाष्यम्, समासः, विग्रहः, समस्तशब्दाः, तत्पुरुषःAbstract
श्रीरामानुजाचार्यकृतगीताभाष्यद्वितीयाध्यायस्य १–१२श्लोकपर्यन्तं प्रयुक्तानां समस्तपदानां वर्गीकरणे विश्लेषणे च केन्द्रितोऽयं शोधलेखः । विशिष्टाद्वैतदर्शनप्रतिष्ठापकेन महावैयाकरणेन विशिष्टेन विदुषा श्रीरामानुजाचार्येण रचिते गीताभाष्ये गीतायाः श्रुतिस्मृतिसम्मतोऽर्थः प्रतिपादितः किन्तु समासबाहुल्यात्तद्वाक्यार्थस्फोरणे पण्डितैरपि काठिन्यमनुभूयत इति समस्तपदानां विग्रहप्रदर्शनोद्देश्येनानुसन्धानमिदं विहितम् । मिश्रितस्वरूपकेऽस्मिन्ननुसन्धाने श्रीरामानुजाचार्यकृतगीताभाष्याद् द्वितीयाध्यायस्य १–१२श्लोकपर्यन्तं प्रयुक्तानां समस्तपदानां सङ्कलनं कृत्वा तेषां वर्गीकरणं विश्लेषणञ्च कृत्वा निष्कर्षः स्थापितोऽस्ति । अतोऽस्मिन् मूलतो विश्लेषणात्मकोऽध्ययनविधिरवलम्बितोऽस्ति । अत्र च मूलतः पाणिनीयपव्याकरणस्य समाससम्बद्धः सिद्धान्तः सैद्धान्तिकपर्याधारत्वेन गृहीतोऽस्ति । प्राप्ततथ्यानां विश्लेषणेन चात्र– श्रीरामानुजाचार्यकृतगीताभाष्यद्वितीयाध्यायस्य १–१२श्लोकपर्यन्तभागे शब्दद्वयादारभ्य त्रयोदशशब्दपर्यन्तानां शब्दानां समासः कृतः । तत्र च १२५ संख्यकानां समस्तपदानां प्रयोगः कृतोऽस्ति, येष्वत्र पदद्वयनिर्मितानि ५८ पदानि विहायान्येषां ६७ पदानामेव विश्लेषणं कृतम् । तेषु तत्पुरुषसमासः १२१ वारम्, बहुव्रीहिसमासः २७ वारम्, द्वन्द्वसमासः १८ वारम्, केवलसमासः ३ वारम्, अव्ययीभावसमा २ वारं प्रयुक्तः प्राप्तः, अत एव तत्पुरुषसमासस्यैवाधिकः प्रयोगः प्राप्यत इति निष्कर्षः स्थापितः । अत्र निर्धारितांशप्रयुक्तसमस्तपदानां ससूत्रनिर्देशं विग्रहः प्रदर्शितः, समासप्रकारश्चोल्लिखित इति लेखेनानेन रामानुजीयगीताभाष्यद्वितीयाध्यायायस्य १-१२ श्लोकभागस्यार्थबोधे सहयोगो भविष्यतीत्यपेक्ष्यते ।