कारकार्थनिरूपणम्

Authors

  • Hansaraj Joshi

DOI:

https://doi.org/10.3126/anveshana.v3i1.82326

Keywords:

कारकम्, कर्ता, कर्म, करणम्, सम्प्रदानम्

Abstract

अन्वेषणात्मकलेखोऽयं व्याकरणशास्त्रस्य कारकविषयस्योपरि अतीव सूक्ष्मरूपेण विमर्शं कृत्वा विरचितोऽस्ति । समाजे परस्परं भावनाया आदानाय प्रदानाय च शब्दप्रयोग अपेक्षितो भवति । शब्दश्च वाक्यात्मक एव अर्थबोधको भवति । तत्र वाक्यकिमिति जिज्ञासा सम्भवति । अस्याः जिज्ञासायाः निराकरणाय वाक्यविषयकं चिन्तनमपेक्षितं भवति । विशेषतो व्याकरणशास्त्रे वाक्यविषयकं गम्भीरं सूक्ष्मश्च चिंतनमुपलभ्यते ।  वस्तुतः वाक्यमेकं निरवयवं पूर्णं कथननमस्ति । वर्णानां वाक्यावयवानां पदानां पदावयवानां च निरूपणं तु कल्पना मात्रमिति सिद्धान्त स् । पद प्रारम्भ एव तस्मिन् वाक्यस्फोट सिद्धान्ते प्रवेशः कठिन इति वाक्यवयवानां पदादीनां निरूपणं विधीयते । वाक्यलक्षण निरूपणसमये कोषकारः कथयति सुप्तिङन्तचयोवाक्यमिति । किन्तु केषाञ्चन सुबन्तानां तिङन्तानां च पदानां समूहमात्रं वाक्यं भवितुं न शक्नोतीति विचार्य लक्षणान्तरं प्रदर्शितं क्रिया वा कारकान्विता । कारकसहिता क्रिया वाक्यमिति तत्तात्पर्यम् । तत्र वाक्यकाररूपेण विख्यातः कात्यायनो वाक्यलक्षणमित्थं बू्रते— आख्यातं साव्ययकारक विशेषण वाक्यमिति । आख्यातपदस्यार्थो भवति क्रियापदम् । अव्ययसहितं कारकसहितं विशेषणसहितञ्च आख्यातं वाक्यमित्युच्यते । यथा अव्ययसहितमाख्यातं उच्चैः पठति इति । कारकसहितमाख्यातं रामः वनं गच्छति इत्यादिः । विशेषणसहितमाख्यातं सुष्ठु पचति इत्यादिः । एवं प्रकारेण व्याकरणशास्त्रसम्बद्धानां कारकविषयोल्लेखितग्रन्थानुसारं बहूनां विषयाणां निरूपणमपि अत्र वर्तते । अस्मिन् अन्वेषणात्मकलेखे षट्कारकाणां विषये अपि अतीव सूक्ष्मरूपेण वर्णनमस्ति । अत्र कारकसम्बन्धे परमलघुमञ्जुषायाः , भूषणसारस्य, लघुशब्देन्दुशेखरस्य तथान्यग्रन्थस्य साहाय्यं गृहीतं वर्तते ।

Downloads

Download data is not yet available.
Abstract
63
PDF (नेपाली)
60

Published

2025-07-29

How to Cite

Joshi, H. (2025). कारकार्थनिरूपणम् . अन्वेषणा Anveshana, 3(1), 147–155. https://doi.org/10.3126/anveshana.v3i1.82326

Issue

Section

Articles