अलङ्कारशास्त्रानुसारं काव्यात्मान्वेषणम्

Authors

Keywords:

आत्मा, कटकः, काव्यम्, क्षेत्रज्ञः, साहित्यशास्त्रम्

Abstract

अनुसन्धानमिदं  काव्यात्मान्वेषणविषयकं विचारमाधृत्य प्रस्तुतं विद्यते । आधुनिकीं पद्धतिं स्वीकृत्य सविश्लेषणमात्मनः स्वरूपं प्रदर्श्यात्र काव्यात्मविषये निष्कर्षोऽपि स्थापितोऽस्ति । दर्शनसम्मतमात्मस्वरूपं प्रतिपाद्य काव्यसम्मतात्मस्वरूप–निरूपणमेवास्यानुसन्धानस्य प्रमुखमुद्देश्यं विद्यते । शरीरे यथात्मनो महत्त्वं विद्यते तथैव काव्येऽपि आत्मा महत्त्वपूर्णोऽस्ति । परन्तु काव्यस्यात्मा कः ? इति महत्त्वपूर्णा जिज्ञासा आलङ्कारिकाणां मनसि समुपस्थिता । वस्तुतो यस्याभावे काव्यं मृततुल्यमग्राह्यमुपेक्षणीयञ्च जायते , तत्तत्त्वमेवात्मतत्त्वम् । शरीरेऽपि आत्मनोऽभावे विक्रिया दृश्यते । समग्रं शरीरमेवास्पृश्यमनुपयुक्तञ्च निष्पद्यते । काव्यात्मविषये सर्वेऽप्यालङ्कारिका अन्वेषणपराः सन्ति । मूलतः काव्यात्मान्वेषण एव साहित्यशास्त्रे षट् सम्प्रदाया विकसिता अभूवन् । तेषां सर्वेषां सम्प्रदायानां काव्यात्मविषये भिन्ना भिन्ना धारणा वरिवर्ति । तेष्वाद्यः सम्प्रदायो विद्यते रससम्प्रदायः । सम्प्रदायोऽयं रस एव काव्यस्यात्मा इति समुद्घोषयति । तदनन्तरमलङ्कारसम्प्रदायो विकसितोऽभूत्काव्यात्मचिन्तनपरम्परायाम् । एतन्मतानुसारमलङ्कार एव काव्यस्य सर्वोत्कृष्टं तत्त्वमिति । ततो ध्वनिसम्प्रदायस्योदयो जातः । आनन्दवर्धनाचार्यप्रतिपादितो ध्वनिसिद्धान्तोऽपि काव्यस्यात्मा ध्वनिरिति ध्वनेः काव्यात्मत्वं वर्णयति । रीतिरात्मा काव्यस्य इत्युक्त्वा रीतिसम्प्रदायो रीतिरेव काव्यस्यात्मा इति विवेचयति । तथैव वक्रोक्तिसम्प्रदायः “वक्रोक्तिः  काव्यजीवितम्” इति प्रतिपादयन् वक्रोक्तेः काव्यस्यात्मरूपत्वं संस्थापयति । एवमेव कनिष्ठसम्प्रदायो विद्यत औचित्यसम्प्रदायः । अयमपि सम्प्रदाय औचित्यस्य सर्वातिशायित्वं व्याख्याय काव्यात्मान्वेषणसरणौ नवीनं चिन्तनं प्रकटयति । पूर्वीयसाहित्यसिद्धान्तानुसारं काव्यात्मान्वेषण एव सर्वेषामलङ्कारग्रन्थानां पर्यवसानं दरीदृश्यत इत्यादयो विषया अध्ययनेऽस्मिन् विवेचिताः सन्तीति ।

Abstract
0
PDF
0

Author Biography

Uttamprasad Khatiwada , Department of Sahitya (Sanskrit Literature)

Associate professor

Downloads

Published

2026-07-09

How to Cite

अलङ्कारशास्त्रानुसारं काव्यात्मान्वेषणम् . (2026). अन्वेषणा Anveshana, 4(1), 1-13. https://doi.org/10.3126/anveshana.v4i1.96895

Issue

Section

Articles

How to Cite

अलङ्कारशास्त्रानुसारं काव्यात्मान्वेषणम् . (2026). अन्वेषणा Anveshana, 4(1), 1-13. https://doi.org/10.3126/anveshana.v4i1.96895