पुराणेषु पर्यावरणचिन्तनम्

Authors

Keywords:

आधुनिकम्, प्रकृतिसंरक्षणम्, वाङ्मयम्, सनातनसंस्कृतिः, सनातनदृष्टिः

Abstract

अनुसन्धानात्मकलेखोऽयं पौराणिकसाहित्यमनुसृत्य तत्र प्रस्तुतं  पर्यावरणीयचिन्तनं केन्द्रीकृत्य  समीक्षात्मकरीत्या गुम्फितोऽस्ति । पौराणिकवाङ्मयेषु विविधसन्दर्भेषु प्रस्तुतस्य पर्यावरणचिन्तनस्याध्ययनं प्रकाशनञ्चास्य शोधलेखस्य प्रमुखमुद्देश्यमस्ति । लेखश्चायं गुणात्मकस्वरूपे संरचितः । अत्र विविधपुराणरूपप्राथमिकस्रोतोभ्यः तत्सम्बद्धग्रन्थलेखादिरूप द्वितीयकस्रोतोभ्यश्च पुराणेषु प्राप्यमाणानि  पर्यावरणीयचिन्तनरूपाणि तथ्यानि सङ्कलय्य तेषां वर्णनं, विश्लेषणं समीक्षणञ्च कृत्वा निष्कर्षः स्थापितोऽस्ति । अतोऽस्मिन् मूलतो वर्णनात्मको विश्लेषणात्मकः समीक्षणात्मकश्चाध्ययनविधिरवलम्बितोऽस्ति । लेखस्वरूपप्रदानक्रमे च मुख्यतया पारम्परिकपद्धतिर्यथावश्यकं एपिएपद्धतिञ्चावलम्बितास्ति । पर्यावरणं नाम केवलमिदानीमेव चिन्तितो विषयो नास्ति, अपि तु सृष्टेरादिकालादेवातीवसावधानतया संरक्षणायापेक्षितः महत्त्वपूर्णो विषय इति तथ्यं पुराणानामध्ययनेन प्राप्यते । सनातनपरम्परायां वेद-पुराण-स्मृत्यादिषु प्राचीनसाहित्येषु पर्यावरणसंरक्षणसम्बद्धाः नानाविधाः उपायाः स्पष्टतया निर्दिष्टाः सन्ति । अस्मिन् लेखे पुराणग्रन्थानामालोके पर्यावरणं प्रति भारतवर्षीयानां पारम्परिकदृष्टिकोणस्य विश्लेषणं कृतम् । अत्र पर्यावरणस्याध्यात्मिक-सांस्कृतिक-नैतिकपरिणामानां विश्लेषणं कृत्वा तेषामाधुनिकपरिप्रेक्ष्ये प्रासङ्गिकतापि प्रदर्शितास्ति । आधुनिकपर्यावरणसंकटस्य सन्दर्भे पर्यावरणसंरक्षणसम्बद्धा प्राचीना भारतीया दृष्टिरत्यन्तमुपादेया प्रासङ्गिकी च दृश्यत इति निष्कर्षोऽनेनाध्ययनेन स्थापितोऽस्ति । अनेनानुसन्धानेन पाठकाः पौराणिकवाङ्मयान्तर्गतं पर्यावरणीयचिन्तनं  बोद्धुं प्रभवन्तीति विश्वस्यते ।

 

Abstract
0
PDF
0

Author Biography

Kishorchandra Gautam, Lecturer, NSU Vishwavidyalaya Vidyapeeth, Beljhundi, Nepal

Department of  Itihas-Puran (History and Mythology)

Downloads

Published

2026-07-09

How to Cite

पुराणेषु पर्यावरणचिन्तनम् . (2026). अन्वेषणा Anveshana, 4(1), 14-25. https://doi.org/10.3126/anveshana.v4i1.96913

Issue

Section

Articles

How to Cite

पुराणेषु पर्यावरणचिन्तनम् . (2026). अन्वेषणा Anveshana, 4(1), 14-25. https://doi.org/10.3126/anveshana.v4i1.96913