‘अनेकमन्यपदार्थे’ इति सूत्रगतदलसार्थक्यविचारः
Keywords:
बहुव्रीहिः, वृत्तिः, समासः, सूत्रम्, शब्दःAbstract
आलेखोऽयमष्टाध्यायीस्थस्य “अनेकमन्यपदार्थे” इति सूत्रस्य विश्लेषणाय प्रस्तुतो विद्यते । समासविधायकेषु सूत्रेष्वन्यतमिदं सूत्रमिदं बहुव्रीहिसमासं विधत्ते । स च समासः प्रथमाविभक्त्यन्तसमानाधिकरणविषयकोऽस्ति । प्रथमाविभक्त्यन्तसमानाधिकरणन्तु तत्पुरूषस्य द्विगुसमासस्यापि सत्त्वेनास्य समासस्य पार्थक्यञ्चान्यपदार्थे वर्तमानं सदेव पदं समस्यत इति स्पष्टीभवति । तत्पुरूषस्योत्तरपदार्थप्राधान्याद्बहुब्रीहेश्चान्यपदार्थस्य प्राधान्यात्पार्थक्यं सुस्पष्टमेव । तत्पुरुषस्तु द्विपदसमासोऽस्ति, बहुब्रीहिस्त्वनेकपदसमासोऽपि भवितुं शक्नोति । आलेखस्य निर्माणाय पुस्तकालयमाध्यमेन प्राथमिकद्वितीयकसामग्रीणां सङ्कलनं विधाय वर्गीकरणं सम्पाद्य वर्णनात्मकविश्लेषणात्मकतुलनात्मकविधिभिरनुसन्धानं विहितमस्ति । अष्टाध्याय्याः सर्वस्य सूत्रस्य एकैकमक्षरमपि सार्थकमस्तीति महाभाष्यकारेणोक्तम् । एकमक्षरमपि निरर्थकं न भवेदिति विचार्य सूत्रप्रणयनं कृतमस्ति । सूत्रगतानां प्रत्येकं दलानां ग्रहणस्य विशिष्टं प्रयोजनमस्ति । महाभाष्ये प्रत्येकं दलानां ग्रहणप्रयोजनसन्दर्भे पूर्वमकृतेऽपि कार्यं चलतीत्युक्त्वान्ते च तस्य सार्थक्यविषये ग्रहणौचित्यमपि प्रतिपादितमस्ति । अतोऽस्मिँल्लेखे अनेकम्, अन्यः, पदम्, अर्थः इत्यादीनां सूत्रगतदलानां ग्रहणप्रयोजनमुपयोगित्वञ्च विविधोदाहरणैः प्रदर्श्य स्थापितमस्ति । बहुव्रीहिः समानाधिकरणानामेव, मत्वर्थे बहुव्रीहिः इत्यादीनि वचनानि च न कथनीयानि, अनभिधानस्यैव स्वीकरणेन सर्वेष्टसिद्धिर्भवतीति वर्णितम् । तथा चेदं सूत्रं बहुब्रीहिसमासविधायकं प्रमुखं सूत्रं वर्तते । प्रथमासमानाधिकरणपदयोर्बहुब्रीहिसमासकरणाय पाणिनिना रचितमिदं सूत्रं पाणयिनीयव्याकरणस्य महत्त्वाधायकं सूत्रमस्ति । अनुप्रयोगविषयेऽप्यर्थग्रहणसामर्थ्यान्न दोष इति निष्कर्षोऽत्र स्थापितो वर्तते ।