वैशेषिकदर्शने द्रव्यादितत्त्वज्ञानमुत धर्मो निःश्रेयसहेतुः

Authors

Keywords:

कणादः, धर्मव्याख्यानम्, तत्त्वज्ञानान्मुक्तिः, विचिकित्सा, ज्ञानकर्म्मसमुच्चयवादी

Abstract

प्रस्तुते शोधनिबन्धे वैशेषिकदर्शनाभिमतस्य निःश्रेयसस्य कारणविषयको विचारः प्रस्तुतो विद्यते । वैशेषिकदर्शनमाधारीकृत्य नैकविधेषु विषयेषु जातेऽपि चिन्तने तत्प्रतिपादितनिःश्रेयसस्य मूलं कारणं किम् ? कथञ्चेत्यत्र सूत्रभाष्यकृतौ तद्व्याख्यातॄँश्चानुसृत्य न तथा विवेचनं लभ्यते, यथापेक्ष्यते । तदेव शोधरिक्तता खल्विह विषये । प्रसङ्गेऽत्र वैशेषिकदर्शनप्रतिपादितनिःश्रेयसस्य किं कारणम् ? कीदृशश्च तत्र व्याख्यातॄणां मतभेदः ? इति समस्यात्वेन दृग्गोचरीभवति । एनां  समस्यां समाधातुं वैशेषिकदृष्टिं पुरस्कृत्य निःश्रेयसकारणविवेचनमेव प्रस्तुतस्य शोधनिबन्धस्य मुख्यमुद्देश्यमस्ति । प्रस्तुतस्य शोधकार्यस्य कृते सामग्रीसङ्कलनार्थं विशेषतो बहुशश्च पुस्तकालयाः प्रयुक्ताः, विश्लेषणाय च मूलतः समीक्षणात्मको विधिरवलम्बितो वर्तते । एतावता चात्र प्रयुक्तः शोधविधिर्गुणात्मको विद्यते । सैद्धान्तिकाधारश्च वैशेषिकशास्त्रगर्भितो निःश्रेयससम्बद्धसिद्धान्तः । वैशेषिकदर्शनप्रवर्द्धको मुनिः कणादस्तावद् धर्मविशेषप्रसूतात् तत्त्वज्ञानान्मुक्तिरिति व्याचष्टे । कोऽयं धर्मः ? किंस्वरूपकश्च सः ? इत्यत्र कणव्रतोऽभ्युदयनिःश्रेयसहेतुरिति बभाषे । तावता तत्त्वज्ञानं धर्मो वा  निःश्रेयसकारणम् ? इति विचिकित्सा समजनि । तत्समाधाने वैशेषिकशास्त्रविचक्षणानां नैकमतं लभ्यते । तदत्रालेखे विमृष्टम् । कतिपयेषां मूर्ध्न्यभिषिक्तानां वैशेषिकदर्शनव्याख्यातॄणां मते ज्ञानकर्मैतदुभयमपि निःश्रेयसकारणत्वेन सदपि केचन व्याख्यातारो धर्मस्य कारणत्वम्, केचन तु तत्त्वज्ञानस्य कारणत्वं विवेचयन्तः सन्तो यथायथं तत्तत्प्रामुख्यं प्रतिपादयन्तः स्वनिष्ठं ज्ञानकर्मसमुच्चयवादित्वं पुरःस्थापयन्तीति निष्कर्षोऽत्र स्थापितः ।

Abstract
0
PDF
0

Author Biography

Keshavsharan Aryal , Associate professor, NSU Valmeeki Campus

Department Of Nyaya (Ancient Logic)  

Downloads

Published

2026-07-09

How to Cite

वैशेषिकदर्शने द्रव्यादितत्त्वज्ञानमुत धर्मो निःश्रेयसहेतुः. (2026). अन्वेषणा Anveshana, 4(1), 39-51. https://doi.org/10.3126/anveshana.v4i1.96916

Issue

Section

Articles

How to Cite

वैशेषिकदर्शने द्रव्यादितत्त्वज्ञानमुत धर्मो निःश्रेयसहेतुः. (2026). अन्वेषणा Anveshana, 4(1), 39-51. https://doi.org/10.3126/anveshana.v4i1.96916