व्याकरणशास्त्रे शास्त्रासिद्धत्व-कार्यासिद्धत्वमीमांसा
Keywords:
आहार्यज्ञानम्, चक्रकापत्तिः, लक्षणावृत्तिः, विप्रतिषेधः, सप्ताध्यायीAbstract
व्याकरणशास्त्रपरम्परायामष्टाध्याय्याः महत्त्वपूर्णं स्थानं विद्यते । महेश्वरप्रसादाल्लब्धानि ‘अइउण्’ इत्यादीनि चतुर्दशसूत्राण्याधृत्य भगवता पाणिनिना प्रत्याहारनिर्माणमाध्यमेन सम्पूर्णसूत्राणां क्रमबद्धसंयोजनं विधाय अष्टाध्यायीग्रन्थो निर्मितः । अष्टाध्यायीग्रन्थे च विद्यमानेषु सूत्रेष्वन्यतमं सूत्रमस्ति पूर्वत्रासिद्धमिति । तेनैव सूत्रेण व्याकरणशास्त्रपरम्परायां सिद्धासिद्धत्वपक्षयोः सैद्धान्तिकस्वरूपं प्रस्तुतम् । संज्ञापरिभाषादिषड्विधसूत्रेषु एतदधिकारसूत्रमस्ति । यद्यप्यस्य सूत्रस्य विधित्वाधिकारत्वविषये विवादो दृश्यते तथापि अस्य अधिकारत्वेवाङ्गीक्रियते । यदि विधिसूत्रत्वमेवाङ्गीक्रियते तर्हि सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा भवति इत्येवार्थो भवति न तु त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धं स्यादिति इत्यर्थो लभ्यते । तथा सति त्रिपाद्यामस्य नियमस्याप्रवृत्या गोधुङ्मान् इत्यादिप्रयोगाः नैव सम्भवन्ति । अधिकारत्वं नाम उत्तरोत्तरसम्बन्धः । एवञ्चास्य सूत्रस्य त्रैपाद्यां विद्यमानेषु सर्वेषु सूत्रेषु सम्बन्धो भवति । पूर्वत्र, असिद्धमिति पदद्वयस्य जायते चानुवृत्तिः । एवं सर्वत्र एकवाक्यतया भवति शाब्दबोध इति । तेन त्रिपाद्यामपि पूर्वशास्त्रं प्रति परशास्त्रमसिद्धं भवतीत्यर्थलाभो भवति । अस्यार्थस्तु ‘सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् स्यादिति । पूर्वशास्त्रदृष्ट्या परशास्त्राणामसिद्धत्वारोपं करोति । वस्तुतस्तु पूर्वत्रासिद्धमिति सूत्रमाहार्यारोपमेव विधत्ते । बाधकालीनेच्छाजन्यं ज्ञानमाहार्यज्ञानमिति । यथा रजतत्वाभाववतीं शुक्तिं रजतत्वेन जानीयामिति बाधसमकालिकेच्छाजन्यमिदं रजतमिति ज्ञानमाहार्यज्ञानम् । तच्चाहार्यज्ञानञ्च न हि प्रवर्तकं भवति न वा निर्वर्तकं भवति । यद्यपि लोके दृश्यते प्रवृत्तिनिवृत्ती प्रति अनाहार्यानारोपितज्ञानयोरेव कारणत्वं भवति । आहार्यारोपस्य कारणत्वं नैव भवति । तथाप्यत्र व्याकरणशास्त्रे पूर्वत्रासिद्धमिति शास्त्रप्रामाण्याद् आहार्यारोपज्ञानमपि शास्त्रप्रवृत्तौ निवृत्तौ च कारणं भवति । तेनैव “अ अ” इति सूत्रेण विहितस्य संवृतस्य विवृतत्वबुद्ध्या “अकः सवर्णे दीर्घः” इति सूत्रेण दण्डाढकमित्यादौ दीर्घो भवत्येव । ‘यद्यपि वर्णाः अचेतनाः यस्त्वसौ प्रयुङ्क्ते स चेतनावान् इति महाभाष्यकारस्याशयो विद्यते अतः व्याकरणशास्त्रप्रक्रियानिर्वाहाय शास्त्रेषु चेतनत्वमारोप्य दृश्यदर्शकभावत्वं स्वीकरोति । शास्त्राण्यचेतनानि किन्तु शास्त्रप्रवर्तकस्तु चेतनः । स एव पूर्वशास्त्रं प्रवर्तयिष्यति परशास्त्रञ्चासिद्धवत् करिष्यति । तेन व्याकरणशास्त्रे अष्टाध्यायीस्थसूत्राणां व्यवस्थापनाय पूर्वत्रासिद्धमिति सूत्रस्य ज्ञान्, अर्थापनम्, सिद्धान्तोपस्थापनञ्चातीवावश्यकं परिभाव्य एतत्सूत्रमधिकृत्य व्याख्यानमत्र उपन्यस्तम् । व्याकरणमहाभाष्य–लघुशब्देन्दुशेखर–प्रौढमनोरमादिग्रन्थानां, तट्टीकाग्रन्थानाञ्च सम्यक् पर्यालोचनं विधाय सूत्रे विद्यमानस्य शास्त्रासिद्धत्व–कार्यासिद्धत्वयोर्मध्ये भाष्यसम्मतशास्त्रासिद्धत्वपक्षस्योपन्यासोऽत्र विहितः । तथा च सूत्रविषये समागतानामानुषङ्गिकविषयाणामपि शास्त्रसम्मतं व्याख्यानमत्र कृतमस्ति ।