बहुव्रीहिसमास-तद्भेदप्रभेदविमर्शः

Authors

Keywords:

अन्यपदार्थप्रधानः, तद्‍गुणसंविज्ञानाऽतद्‍गुणसंविज्ञानौ, अनेकमन्यपदार्थे, समानाधिकरणः, व्यधिकरणः

Abstract

अनुसन्धानात्मकलेखोऽयं बहुव्रीहिसमासपरिचय-तद्भेदप्रभेदविषयकविश्‍लेषणे  केन्द्रितोऽस्ति । बहुव्रीहिसमासपरिचयपूर्वकं तद्भेदप्रभेदनिर्धारणोद्देश्येनायं शोधलेखो निर्मितः । लेखश्चायं गुणात्मकस्वरूपे संरचितः । अत्र व्याकरणग्रन्थादिभ्यो बहुव्रीहिसमाससम्बद्धास्तद्‍भेदप्रभेदसम्बद्धाश्च तथ्यरूपाः सामग्रीः सङ्कलय्य तासां वर्णनं, विश्लेषणञ्च कृत्वा निष्कर्षः स्थापितोऽस्ति । अतोऽस्मिन् मूलतो वर्णनात्मको विश्लेषणात्मकश्चाध्ययनविधिरवलम्बितोऽस्ति । अत्र च मूलतः पाणिनीयव्याकरणस्य बहुव्रीहिसमाससम्बद्धसिद्धान्तः सैद्धान्तिकपर्याधारत्वेन गृहीतोऽस्ति । समासभेदेष्वन्यतमो बहुव्रीहिः । तत्र ‘शेषो बहुव्रीहि’रित्यधिकारस्थसूत्रैर्विहितः समासो  बहुव्रीहिः । बहुव्रीहिसमासस्य साधारणः/सामान्यो बहुव्रीहिः, विशेषबहुव्रीहिः, ज्ञापकसिद्धो व्यधिकरणबहुव्रीहिश्चेति मुख्यतः त्रयो भेदाः दृश्यन्ते । साधारणः सामान्यो  वा- द्वितीयार्थ-तृतीयार्थादिः षड्विधः । विशेषबहुव्रीहिश्च-  अव्ययपूर्वपदोपमान-संघात-विकार-प्रादि-नञ्-संख्योत्तरपद-संख्योभयपद-दिगन्तराल-कर्मव्यतिहार-सहार्थबहुव्रीहिश्चेत्येकादशधा । ज्ञापकसिद्धस्य व्यधिकरणबहुव्रीहेश्च सप्तम्यन्तपूर्वपदः, सप्तम्यन्तोत्तरपदः, पञ्चम्यन्तपूर्वपदश्चेति त्रयः प्रभेदाः प्रचलिताः दृश्यन्ते । तद्विकल्परूपेण च साधारणो विशेषश्चेति बहुव्रीहेर्द्विधात्वं स्वीकृत्य व्यधिकरणं तत्प्रभेदेष्वन्तर्भावयितुं शक्यते । वर्तिपदार्थान्वयाधारेण बहुव्रीहेः तद्‍गुणसंविज्ञानोऽतद्‍गुणसंविज्ञानश्चेति द्वौ भेदौ, पदसंख्याधारेण च द्विपदो बहुपदश्चेति तस्य द्वौ भेदौ स्वीक्रियेत इति निष्कर्षोऽत्र प्राप्तोऽस्ति ।   

Abstract
0
PDF
0

Author Biography

Harilal Paudel, Lecturer, NSU Vishwavidyalaya Vidyapeeth, Beljhundi, Dang, Nepal.

Department of Vyakaran (Sanskrit Grammar)

Downloads

Published

2026-07-09

How to Cite

बहुव्रीहिसमास-तद्भेदप्रभेदविमर्शः. (2026). अन्वेषणा Anveshana, 4(1), 143-162. https://doi.org/10.3126/anveshana.v4i1.96927

Issue

Section

Articles

How to Cite

बहुव्रीहिसमास-तद्भेदप्रभेदविमर्शः. (2026). अन्वेषणा Anveshana, 4(1), 143-162. https://doi.org/10.3126/anveshana.v4i1.96927