व्याकरणदर्शनशास्त्रशिक्षणे प्राच्यार्वाचीनविधिविमर्शः

Authors

  • भोलानारायण Bholanarayan रेग्मी Regmi श्रीविन्दुवासिनीसंस्कृतविद्यापीठम्, पोखरा

Keywords:

व्याकरणम् , दर्शनम्, शिक्षणम्, विधिः, पाश्चात्यः

Abstract

अनुसन्धानेऽस्मिन् व्याकरणदर्शनशिक्षणे प्राच्यार्वाचीनविधीनां विचाराः सन्ति । व्याक्रियन्ते व्युत्पाद्यन्ते असाधु–शब्देभ्यो विविच्य साधुशब्दाः पृथक्क्रियन्ते अनेनेति व्याकरणम्, वि आङुपसृष्टकात् करणार्थकात् कृधातोः करणे ल्युटि अनादेशे विभक्तिकार्येण सम्पन्नस्य व्याकरणशब्दस्य असाधुशब्दावधिकसाधुशब्दकर्मकपृथक्कृतिनियमविशे षस्य प्रक्रिया–परिस्कारदर्शनान्वितस्य दर्शनपक्ष कः ?, व्याकरणङ्कथं दर्शनमितिविवदमानेऽस्य दर्शनत्वसाधनपुरस्सरं किन्तावत् शिक्षणं शिक्षा शिक्षणमुपदेशादिविषयाणां विचारङ्कृत्वा प्राचीनकाले कीदृशैराचार्यैः कया रीत्या शिक्षणे छात्रा लाभान्विता व्यवहारकुशलाश्चाभूवन्नित्युदाहरणं च दङ्खवा आर्षपरम्परायां गुरूकुल— ऋषिकुलाचार्यकुलस्थै– रन्तेवासिभिः के–के विधयः समाश्रितास्तेषां पौरस्त्यविधीनां प्रदर्शनेन पाश्चात्यपद्घतिः कीदृशी केन विधिना शिक्षणं सफलं भवतीति किन्तावद् भिन्नता नूतनत्वं वा तद्विषये विचाराः प्रस्ताविताः सन्ति । तेषु साहित्यिक दृष्ट्या ऐतिहासिकदृष्ट्या सांस्कृतिकदृष्ट्या दार्शनिकदृष्ट्या च संस्कृतभाषा समृद्धा महत्वपूर्णा च वर्तते । अनया भाषया सुविशालस्यास्य शिक्षणस्य परम्परा च दीर्घतमा वर्तते । संस्कृतस्य अक्षराणि सम्यक्तया ज्ञातुं प्रथमं संस्कृतव्याकरणशिक्षणमावश्यकम्, तद्विषये नैकविधा विचाराः सन्ति । वर्तमाने भाषाशिक्षणेन यस्य कस्यापि विषयस्य सम्यगध्यापने सुगमतयाऽवबोद्धुं नैकविधा विधयो विकसिता दरीदृश्यन्ते । पाश्चात्यजगति च तेषां प्रयोगेण स्वल्पेनैव कालेन अन्ताराष्ट्रियाङ्गलाद्याधुनिकभाषासु नैपुण्यमार्जयन्ति अध्येतारः । आधुनिकशिक्षणविधेः प्रवर्धनाय शिक्षकप्रशिक्षणम् शिक्षानिर्देशिकाया निर्माणम्, शिक्षणसामग्रीणां समुत्पादनं च विधीयत इति प्रशिक्षितः शिक्षकैः । निर्दिष्टपद्धत्या कृतं शिक्षणं प्रभावोत्पादकं भवति इति आधुनिकभाषाशिक्षणे अनुभूतचरमेव । परमद्यावधि नैपालकाः प्रशिक्षणादिसौविध्यवञ्चिताः परम्परागतशैल्या शिक्षणं कुर्वन्तीति तेषां कृते किमपि विचारणीयमिति धिया प्राक्तनैः, आधुनिकैश्च व्याकरणभाषादिविज्ञैः समाश्रितानां पद्धतीनां परिचयपुरस्सरं व्र्याकरणदर्शनशास्त्रशिक्षणे प्राच्यार्वाचीनविधिव्यवस्थायाः परिशीलनं क्रियते ।

Abstract
187
PDF
0

Author Biography

भोलानारायण Bholanarayan रेग्मी Regmi, श्रीविन्दुवासिनीसंस्कृतविद्यापीठम्, पोखरा

सहप्राध्यापक

Downloads

Published

2024-09-27

How to Cite

रेग्मी Regmi भ. B. (2024). व्याकरणदर्शनशास्त्रशिक्षणे प्राच्यार्वाचीनविधिविमर्शः. AWADHARANA, 8(1), 67-79. https://doi.org/10.3126/awadharana.v8i01.70093

Issue

Section

Articles

How to Cite

रेग्मी Regmi भ. B. (2024). व्याकरणदर्शनशास्त्रशिक्षणे प्राच्यार्वाचीनविधिविमर्शः. AWADHARANA, 8(1), 67-79. https://doi.org/10.3126/awadharana.v8i01.70093