न्यायवैशेषिकदर्शनाभिमतोऽभावपदार्थः

Authors

DOI:

https://doi.org/10.3126/awadharana.v9i1.86194

Keywords:

न्यायः, वैशेषिकम्, भावः, अभावः, प्रतियोगी

Abstract

न्यायशास्त्रं तावत् प्रमाणशास्त्रम् । तत्र विशेषतः प्रमाणविश्लेषणं विधीयते । न्यायशास्त्रे रवतोऽभावपदार्थ उद्दिष्टो विवेचितश्च नास्ति । अथापि नैकेषु न्यायसूत्रेष्वभावपदमागतम् । तेन च शास्त्रेऽस्मिनप्यभावपदार्थः स्वीकृत इति ज्ञायते । तत्र साक्षादभावपदार्थस्य भेदविषयकविश्लेषणस्यासत्त्वेऽपि नैकविधैरभावपदघटितैः न्यायसूत्रैः प्रागभावादयो द्योतिताः सन्ति । विशेषमधिकृत्य प्रवर्तितं दर्शनमेव वैशेषिकदर्शनम् । तत्र सूत्रकारेणोद्देशसूत्रे द्रव्यगुणकर्मसामान्यविशेषसमवायाः षट् पदार्था एव रवेण निगदिताः । पृथक्पदार्थस्याभावस्यापि सत्त्वे तथा किमर्थमिति चेत् सत्यम्, परमभावस्य प्रतियोगिनिरूपणाधीननिरूपणीयत्वाद्रवेणोद्देशसूत्रे तन्नोक्तम्, न तु हेयत्वादिति रहस्यविदः । एतन्नामाभावपदार्थनिरूपणाय तत्प्रतियोगिभावपदार्थो निरूप्यो भवति । भावे निरूपिते सति तदभावनिरूपणं सहजम् । भूधातोर्घञि निष्पन्नो भावशब्दः कस्यचन वस्तुनः सत्त्वं द्योतयति । भावश्चासौ पदार्थो भावपदार्थः । तद्भिन्नोऽभावपदार्थः । एतन्नाम नञ्पदजन्यप्रतीतिविषयत्वमभावत्वमिति फलितार्थः । अस्तीतिजन्यप्रयत्यस्य सविषयकत्वमिव नास्तीतिजन्यप्रत्ययस्यापि सविषयकत्वं निराबाधम् । प्रत्ययमात्रस्य निर्विषयकत्वाभावात् । कस्मिँश्चित् कार्ये यथा भावस्य कारणत्वं निराबाधं तथैवाभावस्यापि कारणत्वमेव । अभावस्य कथं कारणत्वमिति चेत् कार्यप्रतिबन्धकाभावत्वे एव कार्योत्पत्तेरिति ज्ञेयम् । प्राभाकरमीमांसका अभावस्याधिकरणस्वरूपत्वमुरीकृत्य पृथक्पदार्थत्वं न स्वीकुर्वन्ति । तत्र बीजत्वेन लाघवं पुरःस्थाप्यते । परं नैयायिका अनन्ताधिकरणत्वकल्पनापेक्षयाऽतिरिक्ताभावकल्पयनाया लाघवाद् भिन्नोऽभावपदार्थ इति प्रतिपादयन्ति । भाट्टास्तु अभावमपि न केवलं पृथक्पदार्थत्वेनाङ्गीकुर्वन्त्यपितु वैशेषिका इवादौ संसर्गान्योन्याभावभेदेन द्विधा विभजन्ते, संसर्गाभावञ्च पुनः प्रागभावादिभेदेन त्रिधेति । अभावश्च वैशेषिकचिन्तने प्रागभावप्रध्वंसाभावात्यन्ताभावान्योन्याभावभेदेन चतुर्धा विभज्यते । अनादिः सान्तः प्रागभावः, सादिरनन्तः प्रध्वंसाभावः, त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽभावोऽत्यन्ताभावः, पारस्परिकाभावोऽन्योन्याभाव इति । केचन पुनः ध्वंसाभावं प्रतियोगिविशेषमामन्वत इति तत्पक्षमुपस्थाप्य सूत्रकारतद्व्याख्यातृभिरभावस्य क्रियागुणव्यवहाराभावाद् वस्तुनश्च तथा व्यवहाराद् ध्वंसाभावो ह्यर्थान्तरमिति साधितं विद्यते । केचित्तु घटवति भूतलादौ उत्पादविनाशशाली किं वा उत्पत्तिप्रतियोगी, ध्वंसप्रतियोगी चेति चतुर्थोऽयं संसर्गाभावस्यावान्तरभेद इत्यप्याचक्षते ।

Downloads

Download data is not yet available.
Abstract
0
PDF
0

Downloads

Published

2025-11-10

How to Cite

Aryal, K. S. (2025). न्यायवैशेषिकदर्शनाभिमतोऽभावपदार्थः. AWADHARANA, 9(1), 70–85. https://doi.org/10.3126/awadharana.v9i1.86194

Issue

Section

Articles