पाणिनीयव्याकरणे उपसर्जनसंज्ञाविचारः

Authors

DOI:

https://doi.org/10.3126/awadharana.v9i1.86196

Keywords:

अपूर्वनिपातः, उपसर्जनम्, एकविभक्ति, प्रथमानिर्दिष्टम्, विग्रहः

Abstract

शब्दसाधुत्वावबोधार्थं भगवता पाणिनिना अष्टाध्याय्यां यथालाघवं कार्यसम्पत्तये विविधाः संज्ञाः परिकल्पिताः । ताश्च संज्ञाः तिस्रः – यथासम्भवं लघीयस्यः, अन्वर्थसंज्ञाः, प्राचीनानुसारिण्यश्च । तथा हि — 'संज्ञा च नाम न यतो लघीयः'(महाभाष्यवचनम्.१.४.२३) इति न्यायेन परिकल्पिताः 'अ इत्यष्टादशानां संज्ञा' (सिद्धान्तकौमुदी, १४), "अचोऽन्त्यादि टि" (पाणिनिसूत्रम्,१.१.६४) इत्यादयः संज्ञाः लघीयस्यः संज्ञाः । "महत्याः संज्ञायाः करणे एतत् प्रयोजनम्" (महाभाष्यवचनम्.१.४.२३) इति न्यायेनोपदिष्टाः महासंज्ञाः यथा सर्वनाम, सम्प्रसारणम् संज्ञाः, तृतीयाश्च संज्ञाः तादृश्यः, यासां गुरुभूतत्वेऽपि अदृष्टप्रयोजनकाः प्राचीनानुसारेण विहिताः यथा, प्रथमामध्यमाप्रातिपदिकादयः संज्ञाः । एतासु विविधासु संज्ञासु समासस्थले विशेषतः पूर्वनिपाताय, उपसर्जनह्रस्वाय च परिकल्पितेयमन्यतमा संज्ञा उपसर्जनसंज्ञा नाम । यद्यपि उपेत्युपसर्गपूर्वकसृज्धातोः ल्युटि सिद्धोऽयं शब्दः उपसर्जनमिति दर्शनान्तरेष्विवेहापि शास्त्रे अप्रधानाद्यर्थेषु विद्यते, तथापि पाणिनिव्याकरणे शास्त्रबोधितमुपसर्जनं पारिभाषिकञ्च विद्यते । अष्टाध्याय्यां प्रथमाध्यायस्य द्वितीयपादे एतत्संज्ञाया विधायके द्वे सूत्रे स्तः– "प्रथमानिर्दिष्टं समास उपसर्जनम्"( अष्टाध्यायी, १.२.४३), "एकविभक्ति चापूर्वनिपाते"( अष्टाध्यायी, १.२.४४) इति । प्रसङ्गेऽस्मिन् एतस्याः संज्ञायाः प्रवृत्तिस्थलानि, संज्ञाविधायकशास्त्रार्थचिन्तनम्, संज्ञाया असाधारणानि प्रयोजनानि, महासंज्ञायाः प्रयोजनम् संज्ञाया विधाने प्रसक्तानां समेषाम् अव्याप्ति–अतिव्याप्ति-असम्भवादिदूषणानां परिहारः, सूत्रार्थनिर्णये प्रसक्ता अनुपपत्तयः, तत्समाधानानि च यथाकरं प्राचीनानां नवीनानाञ्च आचार्याणां मतेन विचार्यन्ते । एतस्याश्च संज्ञाया समाससंज्ञायां प्रवृत्तायामेव जायमानत्वेन ततः पूर्वं समाससंज्ञायाः परिचयः प्रकाश्यते। अथ च समासस्य लक्षणं तस्य प्रसिद्धा अप्रसिद्धाश्च भेदाः, तेषामुदाहरणमित्यादयो विषया  प्रसङ्गप्राप्ताः यथालघु स्पष्टीकरिष्यन्ते।

Downloads

Download data is not yet available.
Abstract
0
PDF
0

Downloads

Published

2025-11-10

How to Cite

Sharma, J. (2025). पाणिनीयव्याकरणे उपसर्जनसंज्ञाविचारः. AWADHARANA, 9(1), 86–95. https://doi.org/10.3126/awadharana.v9i1.86196

Issue

Section

Articles