लकारार्थविचारे कृतौ कृर्तरि वा तच्छक्तिसमीक्षणम्

Authors

DOI:

https://doi.org/10.3126/awadharana.v9i1.86197

Keywords:

कर्ता, कृतिः, परोक्षः, लकारः, वर्तमानः

Abstract

वेदस्य षडङ्गेषु मुखमिव मुख्यत्वाद् व्याकरणं प्रधानं विद्यते । तत्र मुख्यतत्त्वस्य कारणमपि  'काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्' इति सर्वसिद्धान्तस्य सिद्धत्वात् । अतो व्याकरणशास्त्रं सर्वैरपि संस्कृतजिज्ञासुभिरनिवार्यत्वेन  पठ्यते  पाठ्यते च सर्वत्र संस्कृताध्ययनस्थलेषु । वर्तमाने प्रसिद्धस्य व्याकरणशास्त्रस्य पठने पाठने च द्विधा व्यवस्था  प्रसिद्धा वर्तते । एका आरोहा , अपरा  चावरोहा , आरोहाया नाम प्राचीनव्याकरणं वर्तते । अवरोहायाश्च नाम नव्यव्याकरणं विद्यते । नव्यव्याकरणस्य परम्परायाम् प्रक्रिया -  परिष्कार-  दर्शनपक्षस्य च भेदान दृश्यन्ते । प्रक्रियाया आरम्भक्रमे रामचन्द्राचार्येण प्रणिता प्रक्रियाकौमुदी भट्टोजीदीक्षितस्य वैयाकरणसिद्धान्तकौमुदी  वरदराजाचार्यस्य मध्यसिद्धान्तकौमदी लघुसिद्धान्तकौमुदी च प्रसिद्धा ग्रन्था विलसन्ति । तेषु भट्टोजिदीक्षितेन सिद्धान्तकौमुद्यां संज्ञा-  सन्धि - षड्लिङ्ग  - अव्यय - स्त्रीप्रत्यय -कारक  - समास -तद्धित - तिङन्त - प्रत्ययमाला - आत्मनेपद - परस्मैपद -  भावकर्म -कर्मकर्तृप्रक्रिया-  लकारार्थ - कृदन्त - उणादि - वैदिक - स्वर -फिट् - लिङ्गानुशासनरूपेण प्रकरणानां विभाजनं  वर्तते । इयं नव्यस्य व्यवस्था वैज्ञानिकी  वर्तते , यतो हि प्रथमं  तावत् संज्ञाप्रकरणादेव ज्ञायते यतो हि  संज्ञिनो ज्ञानर्थं प्रथमं संज्ञायाः  (नाम्नः)  ज्ञानमेव आवश्यकं विद्यते । सुबन्तानां निरूपणात् पश्चात्  अव्यय - स्त्रीप्रत्यय - कारकः - तद्धितानां  निरूपणानन्तरं तिङन्तप्रकरणं विद्यते, तदपि समुचितमेव विद्यते । सर्वेषां सुबन्तानां सहकारित्वात् ।  'अपदं न प्रयुञ्जीत'  इति  भाष्यसिद्धान्तस्य लोके शास्त्रे च सिद्धत्वात् , अपि च  'सुप्तिङन्तं पदम्' इत्यनुशासनात्  सुबन्तानां निरूपणान्तरं तिङन्तानां  निरूपणावसरे तिबादि - ङान्तघटक - दशप्रत्ययेषु  तिङ्पदस्य 'आदिरन्त्येन  सहेता' इति पाणिनिसङ्केतसम्बन्धेन शक्त्या तेषां  स्थानिनां लडादीनां -दशलकाराणां  के के अर्थाः  पुनश्च लकाराणां शक्तिनिर्धारकस्य  'लः कर्मणि च भावे चाकर्मकेभ्यः' इति सूत्रेण कर्तरि कर्मणि  भावे च  सङ्केतिता अर्थाः सन्ति । तेषु सकर्मकाणाम्  अकर्मकणाम् च धातूनां निर्धारणपूर्वकमेवार्थाः संसाधिताः, तत्र व्याकरणशास्त्रं सर्वशास्त्रोपकारकमेतद्  विषये  नैयायिकानां  मीमासकानां तथा चाऽन्येषामपि विभिन्नानां शास्त्रकाराणां दार्शनिकानां विभिन्नानि मतानि   सन्ति । तिबादीनां स्थानित्वेन निर्धारितानां  लकाराणां नैयायिकैः कृतौ शक्तिः स्वीक्रियते परन्तु वैयाकरणा तद् न मन्यते अपि तु स्वमतं  कर्तरि स्थापयितुं का वाचो युक्तिरिति  विषयमादाय परमतखण्डनपूर्वकं  स्वमतस्थापनमत्र क्रियते ।

Downloads

Download data is not yet available.
Abstract
0
PDF
2

Downloads

Published

2025-11-10

How to Cite

Regmi, B. N. (2025). लकारार्थविचारे कृतौ कृर्तरि वा तच्छक्तिसमीक्षणम्. AWADHARANA, 9(1), 96–103. https://doi.org/10.3126/awadharana.v9i1.86197

Issue

Section

Articles