धात्वर्थविभागयोः निरूपणात्मकमध्ययनम्

Authors

  • टीकारामः दहालः Pindeshwar Vidyapeeth, Dharan, Nepal Sanskrit University, Nepal

DOI:

https://doi.org/10.3126/dristikon.v11i1.39173

Keywords:

सेट्, गणानुरूपम्, व्युत्पादनम्, व्यापारार्थः फलम्

Abstract

भू वा पठ् इत्यादयः क्रियावाचिनः धातुपाठे पठिताः सकलशब्दानामाधारभूताः धातवः सन्ति । धातुः मूलरूपेण क्रिया तथा नामसर्वनामविशेषणाव्ययपदानां व्युत्पादकः बीजरूपेण परिपोषकश्च वर्तते । व्युत्पादनस्याधारभूतत्वादेव धातोः कृत् प्रत्यये सति कृदन्तपदानि नामादीनि तथा तिङ्प्रत्यये सति तिङन्तपदानि व्युत्पन्नानि भवन्ति । कर्तरि कर्मणि भावे चार्थे धातोः लट्, लिट् इत्यादयः दश ‘लकाराः’ भवन्ति । कर्तरि लकारे सति कर्तृवाच्यस्य क्रियापदानि कर्मणि लकारे सति कर्मवाच्यस्य क्रियापदानि तथा भावे लकारे सति भाववाच्यस्य क्रियापदानि व्युत्पन्नानि भवन्ति । लकारस्य स्थाने तिबादयोऽ ष्टादश तिङ्प्रत्यया आदिश्यन्ते । ततः धातोः तिङ्प्रत्ययसंयोजनेन तिङन्तपदानां रचना भवति । एतानि तिङन्तपदानि आख्यातपदनाम्ना क्रियापदनाम्ना च पदविभागेषु प्रसिद्धानि सन्ति । धातोरनेके विभागाः सन्ति । विविधान्नाधारान्नाधृत्य विभागान्नध्येतुं शक्यते । धातोः गणपाठानुरूपम्, व्युत्पादनप्रक्रियानुरूपम्, कर्मग्रहणदृशा तथा इडागमसहिताः सेटः इडागमरहिताः अनिट्रूपेण विभागाः दृश्यन्ते । ते च सर्वे विभागाः कार्यपरकतया विभक्ताः विलोक्यन्ते । प्रथमतः गणपठिताः धातवः आद्यधातोः नाम्नैव स्थापिताः भ्वाद्यदादिजुहोत्यादिदिवादि–तनादिक्र्यादिस्वादिचुरादयः दश गणेषु निबद्धाः सन्ति । कर्मग्रहणदृशा च धातोः सकर्मकाकर्मकः विभागः शास्त्रेषु व्यवहृतः समुपलभ्यते । रूपायन सन्दर्भे इडागमसहितेन रूपायितः सेट् तथा तद्ररहितः अनिट् इति धातोः विभागश्च कृतो विलोक्यते । येभ्यः धातुभ्यः परस्मैदिनः तिङ्प्रत्ययाः भवन्ति ते परस्मैपदिनस्तथा येभ्यः आत्मनेपदिनः तिङ्प्रत्ययाः उत्पद्यन्ते ते चात्मनेपदिनः धातुरूपेण विभक्ताः विद्यन्ते । येभ्यः परस्मैपदिनस्तथात्मनेपदिनश्चोभयविधः तिङः जायन्ते ते च धातवः उभयपदिनः मन्यन्ते ।

Downloads

Download data is not yet available.
Abstract
84
PDF
152

Downloads

Published

2021-08-17

How to Cite

दहालः ट. . (2021). धात्वर्थविभागयोः निरूपणात्मकमध्ययनम्. Dristikon: A Multidisciplinary Journal, 11(1), 320–333. https://doi.org/10.3126/dristikon.v11i1.39173

Issue

Section

Articles