पाणिनीयव्याकरणशिक्षणाय शारदाप्रभानिर्दिष्टव्याख्यानपद्धतिसमीक्षा

Authors

  • Bhawani Shankar Bhattarai Nepal Sanskrit University, Dang, Nepal

Keywords:

अष्टाध्यायीक्रमः, पाणिनीयव्याकरणम्, शारदाप्रभाव्याख्या, सूत्रप्रक्रियाक्रमसङ्गमः

Abstract

व्याकरणविषयस्य शिक्षणमाख्यानरूपकादिशिक्षणापेक्षया महत् कठिनमिति सर्वेषामतिरोहितमेव। तत्रापि पाणिनीयं व्याकरणं सूत्रवार्तिकफक्किकादीनामुत्सर्गापवादादीनां जालेन, तज्ज्ञानोत्तरमेव प्रक्रियाबोधसम्भवेन, तच्छिक्षणाय समग्रविषयज्ञानापेक्षितेन, तच्छिक्षणसरणेर्बोधापेक्षितेन च दुष्करतरं जायमानं प्रतीयते। एतावद् दुष्करकार्यं सरलीकर्तुं शारदाप्रभाकारेण हरिप्रसादशर्माचार्येण २०६० तमे वैक्रमे ‘अष्टाध्यायी : शारदाप्रभाव्याख्या- महिता’ विरचिता। अस्यां व्याख्यायां व्याकरणशिक्षणस्याधुनिकी पद्धतिर्युक्तयश्च प्रयुक्ता दृश्यन्ते, अतो व्याख्यानमिदमाधुनिकतरं शैक्षणिकप्रयुक्तिप्रयोगेण सुबोध्यतरञ्च कारितुं यथासम्भवं प्रयत्नो व्याख्यात्रा कृतः। एतदध्ययनं तस्यां शारदाप्रभाव्याख्यायां व्याख्यात्रा प्रयुक्तानां शैक्षणिकविधीनाम्, प्रविधीनां युक्तीनाञ्च निभालनपूर्वकं तेषां युक्तायुक्तत्वसमीक्षणे, एतेन प्रयुक्ता पद्धतिः ग्रन्थसरलीकरणे समुपयुक्ता अस्ति न वेति पर्यालोचने च केन्द्रिता वर्तते। अतः शारदाप्रभाव्याख्यानेन प्रयुक्ताः पद्धतयो युक्तयश्चोपयुक्ता वर्तन्ते नवेति विवेचनमस्य मुख्यं विषयवस्तु। एतदर्थं प्रकृतेन व्याख्यानेनाष्टाध्यायीशारदाप्रभायां टीकायां काः काश्च शिक्षणपद्धतयः युक्तयश्च प्रयुक्ताः सन्ति ? तादृशीनां पद्धत्यादीनां व्याख्येयविषयेण सह कीदृशं सामञ्जस्यमस्ति ? एभिः पद्धतिभिर्युक्तिभिश्च को लाभ इत्यादि शोधप्रश्नं समुत्थाप्य समग्रेऽध्ययन एतेषामुत्तराण्यन्विष्टानि सन्ति। अध्ययनान्ते च शारदाप्रभायां व्याख्यायां निगमनव्याख्यानप्रवचनप्रश्नोत्तरविधीनां सुष्ठु प्रयोगः प्राप्यते, अमीभिः पद्धत्यादिभिः प्रकृता व्याख्या सरला जाता चेद् वैज्ञानिकव्याकरणपरम्परितानामन्येषां विधीनां प्रयोगेण चेयं साधारणतयोपकृतेति निष्कर्षः सम्प्राप्तः। तथैवोत्प्रेरणदृष्टान्तोदाहरणमूल्याङ्कनादीनां प्रयोगेण, प्राथमिकेभ्यो विशिष्टेभ्यश्च छात्रेभ्यः पृथक् पृथक्तया स्तरानुकूलं विषयचयनम्, विषयस्तरीकरणम्, भाषाप्रयोगे शब्दभाण्डागारचयनेऽवधानता, पाठ्यवस्तुविन्यासे रैखिकता चेत्यादीनां सरण्यादीनामुपयोगेन चेदं पूर्वव्याख्यानतो भिन्नतरं सरलतरञ्च जातं वर्तते। एवमेवात्र निगमनव्याख्यानप्रश्नोत्तरादीनां विधीनां प्रयोगसामञ्जस्यं सुदृढमितरेषान्तु सामान्यमस्तीत्यपि प्रकृतेनाध्ययनेन लब्धम्। प्रकृतव्याख्यानम्, अनेन प्रयुक्तो विधिः सरणिश्च प्राथमिकेभ्यो भिन्नशैल्या द्वितीयकेभ्यश्च तस्माद् भिन्नतरशैल्या क्रमशः पाठनाय निर्दिष्टा वर्तते । अतः सहस्राधिकपृष्ठसंरचिते प्रकृते विशाले ग्रन्थे प्राथमिकैः छात्रैः कथं प्रविष्टव्यमिति संशयः प्राथमिके क्षणे जायते तथापि ग्रन्थे प्रविष्टे सरलभाषया, निर्देशप्रधानया शैल्या, तत्र स्पष्टतया निर्धारितेन क्रमेण, व्याख्यात्रा कृतेन पूर्णेन व्याख्यानेन च जिज्ञासवोऽवश्यं गन्तव्यं प्राप्नुवन्त्येव, अतः शैक्षणिकयुक्तिप्रविधिप्रयोगदृष्ट्या सञ्जातं प्रथमं व्याख्यानमेतद् इति वक्तुं शक्यं तत्र व्याख्यानपद्धत्यादीनामेव महत्त्वपूर्णमवदानं वर्तत इति निश्चितम् । अतोऽसौ पाठकलाभदायकं छात्रोपयोगि च वर्तत इति निष्कर्षः। प्रकृतेऽध्ययने भौतिकवैद्युत्पुस्तकालयाभ्यां सामग्र्यः सङ्कलिताः सन्ति । ताश्च वर्णनविश्लेषणादिभिर्विविच्य समीक्ष्य च तस्माद् निष्षर्षो निष्पादितो वर्तते। अत्र सन्दर्भाङ्कने सन्दर्भसामग्रीविन्यासे च एपिएशैल्याः सप्तमसंस्करणस्य नियमाः परिपालिताः सन्ति ।

Abstract
161
PDF
0

Downloads

Published

2025-04-04

How to Cite

पाणिनीयव्याकरणशिक्षणाय शारदाप्रभानिर्दिष्टव्याख्यानपद्धतिसमीक्षा. (2025). Dristikon: A Multidisciplinary Journal, 15(1), 176-191. https://doi.org/10.3126/dristikon.v15i1.77143

Issue

Section

Articles

How to Cite

पाणिनीयव्याकरणशिक्षणाय शारदाप्रभानिर्दिष्टव्याख्यानपद्धतिसमीक्षा. (2025). Dristikon: A Multidisciplinary Journal, 15(1), 176-191. https://doi.org/10.3126/dristikon.v15i1.77143