संस्कृतस्यानुसन्धाने सामग्रीविश्लेषणस्य विधयः
DOI:
https://doi.org/10.3126/dristikon.v16i1.95164Keywords:
अनुसन्धानपद्धतिः, विश्लेषणम्, संस्कृतानुसन्धानम्, संस्कृतवाङ्मयम्, सामग्रीसङ्कलनम्Abstract
अस्मिन् लेखे संस्कृतानुसन्धाने प्रयुज्यमानानां सामग्रीविश्लेषणविधीनां समीक्षणं विद्यते । सामग्रीसङ्कलनं निम्नलिखितपद्धतिष्वैकस्या उपयोगेन भवति - क्षेत्रकार्यं, प्रतिरूपचयनं, पुस्तकालयकार्यमित्यादयः । अनुसन्धानार्थं प्रतिरूपचयनम्, प्रश्नावली, मतनिर्वाचनम्, साक्षात्कारम्, मतसर्वेक्षणमित्यादीनां निर्माणकार्यं शोधभाषायां यन्त्रनिर्माणमुपकरणनिर्माणं वा कथ्यते । एवं प्रकारेण शोधकर्त्रा निर्मितादुपकरणादन्वेषणीयानां विषयसम्बद्धानामावश्यकसामग्रीणां सङ्ग्रहणं क्रियते, तथा च विशेषज्ञानां मतञ्च योजयित्वान्यैः साधनैः परिष्कृत्य विश्लेषणीयसामग्री निर्मीयते । तदनु ताः सामग्र्यः शोधस्य विविधपद्धतिभिर्विश्लेष्य निष्कर्षो निस्सार्यते । सङ्गृहीतसामग्रीणां विश्लेषणस्य पद्धतयः प्रक्रियाश्च विषयस्य स्वरूपानुसारेण भिन्ना भवन्ति । गुणात्मकेऽनुसन्धाने प्रायः सामग्रीणां व्याख्याने विश्लेषणे च वर्णनात्मक-व्याख्यात्मक-विश्लेषणात्मक-तुलनात्मकानां विधीनामुपयोगो क्रियते । प्रौढमनोरमा-लघुशब्देन्दुशेखर-रसगङ्गाधर-काव्यप्रकाशादीनां संस्कृतपुस्तकानां शोधकार्ये न केवलं व्याख्यात्मक-विश्लेषणात्मकादिविधयोऽपि तु समीक्षात्मक-भाष्यात्मकविधयोऽपि सामग्रीविश्लेषणार्थं प्रयुज्यन्ते । शोधसमस्यानां प्राज्ञिकसमाधानार्थमावश्यकसामग्रीसङ्कलनस्य पद्धतिः प्रकाशितव्या । अनुसन्धानविधौ प्राथमिकस्रोतसामग्री, द्वितीयकस्रोतसामग्री, पुस्तकालयस्याध्ययनम्, क्षेत्रीयं प्रयोगशालीयं वाध्ययनञ्च निर्दिष्टं भवेत् । अस्मिन् लेखे समस्याकथने निर्धारितो मुख्यो विषयो वस्तुतथ्यनिस्सारणे केन्द्रितोऽस्ति । लेखेऽस्मिन् द्वितीयकसामग्रीणां पुस्तकालयकार्यस्य चाधिकः प्रयोगो विद्यते । अत्र वर्णनात्मकस्य विश्लेषणात्मकस्य च प्रमुखविधीनामनुसरणं कृत्वा प्रस्तुतं लेखं सार्थकं कर्तुं प्रयत्नः कृतो वर्तते ।
Downloads
Downloads
Published
How to Cite
Issue
Section
License
© Research Management Cell, Mahendra Multiple Campus, Dharan