@article{तिमिल्सिना Timilsina_2019, title={कवेः टीकारामस्य शैलं समालिङ्गति मेघमाला कवितायाः साहित्यिकमनुशीलनम् Kabe Tikaramasya Shailam Samalingati Meghmala kabitaya shatiyakmanushilanm}, volume={9}, url={https://www.nepjol.info/index.php/dristikon/article/view/31235}, DOI={10.3126/dristikon.v9i1.31235}, abstractNote={<p>नैपालकसंस्कृतकाव्यपरम्परायां कवेः टीकारामस्य विशिष्टमवदानं वर्तते । नेपालीभाषायां संस्कृतभाषायाञ्चास्य नैकानि काव्यानि प्रकाशितानि सन्ति । परिष्कृतां प्राञ्जलां च भाषाशैलीमवलम्ब्य संरचितानि विविधेषु विषयेषु विधासु च निर्मितानि कवेः काव्यानि मानवजीवनस्य कृते प्रेरणास्रोतांसि विद्यन्ते । प्रकृतिजगतो वैविध्यं प्रस्तूय तद्वर्णनमाध्यमेन कविना नेपालीसमाजस्य संस्कृतेश्च चित्रणमपि कृतं विलोक्यते ।<br>प्रस्तुते समीक्षणलेखे कवेः टीकारामस्य ‘शैलं समालिङ्गति मेघमाला’ इति कवितायाः काव्यतत्त्वदृष्ट्या विश्लेषणं कृतमस्ति । कवेः टीकारामस्य २०६४ तमे वैक्रमाब्दे प्रकाशितस्य ‘पद्यपुष्पाञ्जलिः’ इति कवितासङ्ग्रहे विद्यमानासु कवितासु मध्येऽस्मिन् समीक्षणे विवेचनीया कविता सैव वर्तते । अस्यां कवितायां कीदृशा अलङ्काराः प्रयुक्ताः सन्ति, अत्र रसध्वन्यादीनामवस्था कीदृशी, कवितायां गुण–रीति–भाषाशैली–उद्देश्यादितत्त्वानामवस्था कीदृशीत्यादिषु विषयेष्वस्मिन् आलेखे विवेचनं कृतमस्ति । अस्य लेखस्य सामग्रीविश्लेषणक्रमे प्राथमिक्याः सामग्र्या रूपेण कवेः टीकारामस्य कवितासङ्ग्रहस्य विश्लेषणीया कविता सङ्गृहीता तथैव द्वितीयसामग्रीरूपेण विविधैः पौरस्त्यैराचार्यैः प्रतिपादिताः काव्यसिद्धान्ताः प्रयुक्ताः सन्ति । अत्र सामग्रीविवेचने वर्णनात्मकः, विश्लेषणात्मकः, व्याख्यात्मकश्च विधिः प्रयुक्तो विद्यते । विवेचनीयायां कवितायां विविधैः शब्दार्थालङ्कारैः प्रकृतेः सुन्दरं चित्रणं कृतमस्ति । शृङ्गाररसस्य प्रयोगेण कविता सहृदयानां कृते हृदयाह्लादिका वर्तते । मेघमालायाः व्यवहारे मानवव्यवहारस्य समारोपात् मानवीकरणाद्वा कवितेयं प्रभावकारिणी, भावगभीरा च संलक्ष्यते ।</p>}, number={1}, journal={Dristikon: A Multidisciplinary Journal}, author={तिमिल्सिना Timilsina महानन्द Mahananda}, year={2019}, month={Dec.}, pages={257–269} }