अभिज्ञानशाकुन्तलनाटके संवादयोजना {An Analysis of Dialogue Structure in Abhigyanshakuntalam}

Authors

  • प्रकाशपौडेलः Prakash Paudel Department of Sahitya (Sanskrit Literature), Shree Vinduwasini Sanskrit Vidyapeeth (Campus), Pokhara, Nepal

Keywords:

आकाशभाषितम्, कथोपकथनम्, नाट्यम्, नियतश्राव्यम्, पात्रानुकूलम्

Abstract

प्रस्तुतालेखो महाकविना कालिदासेन विरचितस्य ‘अभिज्ञानशाकुन्तलम्’ नाटकस्य संवादविश्लेषणे केन्द्रितोऽस्ति । अत्र पौरस्त्यं नाट्यसिद्धान्तमाश्रित्य मञ्चाभिनयः, आकारः, भाषाप्रयोगः, सम्बोधनसूचकानां नाट्योक्तीनां प्रयोगः, काव्यात्मकता चेत्यादिविषयानाधारीकृत्य नाट्यसंवादस्य विश्लेषणं कृतमस्ति । गुणात्मकोऽनुसन्धानविधिरवलम्बितोऽयं लेखो  वर्णनात्मक-विश्लेषणात्मकशैल्यां संरचितो वर्तते । ‘अभिज्ञानशाकुन्तल’स्य नाट्यसंवादो मञ्चीयः, नेपथ्यम्, अपवारितम्, जनान्तिकम्, सर्वश्राव्यम्, अश्राव्यम्, आकाशभाषितञ्चेत्यादीनां तत्प्रकाराणामुपप्रकाराणाञ्च यथोचित-प्रयोगात् अभिनेयतापरिवर्धितः, सङ्क्षिप्त-मध्यमाकारसंवादबहुलो वर्तते । क्वचित् क्वचित् प्रयुक्ता दीर्घाः, दीर्घतमाश्च संवादा अभिनये पूर्वान्वये च व्याघातका न दृश्यन्ते  । अत्र नाट्यसिद्धान्तमनुपालयन् पात्राणां स्तरानुकूल्येन संस्कृतम्, शौरसेनी, महाराष्ट्री, मागधी चेति बहुलभाषाः, भगवन् !, राजन् !, आयुष्मान् !, आर्य !, देव !, वयस्य !, भद्रमुख !, भर्त्ता !, भट्टारक !, हला !, सखि!, अयि !, वत्स !, आवुत्त ! इत्यादयः सम्बोधनसूचिका नाट्योक्तयश्च यथौचित्यं प्रयुक्ताः सन्ति । पात्राणां बौद्धिकस्तरानुकूल्येन सुष्ठु प्रयुक्तैर्गद्यवाक्यैः, पद्यवाक्यैः, मिश्रवाक्यैश्च संरचितो नाट्यसंवादो विविधैर्रसालङ्कार-रीति-ध्वन्यादिभिः काव्यतत्त्वैर्विविधाभिः सूक्तिभिर्लोकोक्तिभिश्च मञ्जुलोऽस्ति । इत्थं नाट्यतत्त्वस्य काव्यतत्त्वस्य च दृष्ट्या उपयुक्तो वर्तते इति निष्कर्षो स्थापितोऽस्ति । निष्कर्षोऽयं सम्बद्धेभ्यः सर्वेभ्य उपयोगी भविष्यति इति अपेक्षितमस्ति ।

Abstract
150
pdf
0

Downloads

Published

2025-01-07

How to Cite

अभिज्ञानशाकुन्तलनाटके संवादयोजना {An Analysis of Dialogue Structure in Abhigyanshakuntalam}. (2025). Kaumodaki: Journal of Multidisciplinary Studies, 5(1), 1-16. https://doi.org/10.3126/kdk.v5i1.73653

Issue

Section

Articles

How to Cite

अभिज्ञानशाकुन्तलनाटके संवादयोजना {An Analysis of Dialogue Structure in Abhigyanshakuntalam}. (2025). Kaumodaki: Journal of Multidisciplinary Studies, 5(1), 1-16. https://doi.org/10.3126/kdk.v5i1.73653