वृद्धिरादैच्सूत्रविमर्शः

Authors

Keywords:

अन्योन्याश्रयः, आदैच्, गुणाभेदकपक्षः, तद्भावितः, तपरः

Abstract

आलेखेऽस्मिन् अष्टाध्याय्याः प्रथमसूत्रस्य ‘वृद्धिरादैच्’ इत्यस्य समग्रतोऽध्ययनं विश्लेषणं  समालोचनञ्च कृत्वाष्टाध्याय्याः प्रणयनकाले स्थितां पाणिनेर्भाषावैज्ञानिकीं हृदयस्थितिं विज्ञातुं प्रयतितमस्ति ।  प्रयासोऽयमष्टाध्याप्याः संरचनाया विज्ञानाय विहितः प्रथमसोपानरूपो वर्तते । तत्र  महर्षिणा पाणिनिनात्याश्चर्यमयोऽष्टाध्यायीग्रन्थो विरचितोऽस्तीति च प्रथित एव विषयः । अष्टाध्याय्यां परिकल्पिताः पारिभाषिकसंज्ञाः, नियमव्यवस्था, अनुवृत्तिव्यवस्था, अपवादव्यवस्था, षड्विधसूत्राणां व्यवस्था, गणसूत्राणां परिकल्पना, प्रत्याहारव्यवस्था,  अन्यानि भाषावैज्ञानिकतत्त्वानि च अपूर्वाणि, गभीराणि, अत्युन्नतबुद्ध्या प्रकल्पितानि च वर्तन्ते । तत्र वृद्धिरादैच्सूत्रस्य महाभाष्यादिटीकाग्रन्थेषु विहितानि व्याख्यानान्याधृत्य कृतेन समग्रविश्लेषणेन व्याख्यानेन चाष्टाध्याय्याः प्रणयनस्यारम्भे पाणिनेः शाब्दिकी मनोदशा किदृश्यासीदिति ज्ञातुमनुमातुञ्च शक्येत वा ? इति विचार्य तदर्थमत्र प्रयत्नः कृतो विद्यते । तत्र पाणिनीयव्याकरणशास्त्रे वर्णानां, शब्दानाञ्चावबोधनायासन्नशतसंख्यायां पारिभाषिकसंज्ञाः परिकल्पिताः सन्ति । 'वृद्धिः' तासु सर्वप्रथमा संज्ञा । अत्रालेखेऽस्मिन् लोके वृद्धिपदार्थः, पाणिनीयव्याकरणे पारिभाषिकसंज्ञात्वेन कल्पिता वृद्धिसंज्ञा, सूत्रस्थपदानां विवृतिः, संज्ञासूत्रत्वनिर्णयः, तद्भावितातद्भवितयोः चर्चा, विपरीतार्थस्य निरसनम्, आदैजितिपदे तपरकरणस्य प्रयोजनम्, वृद्धिपदस्य संज्ञापदत्वनिर्णयः, चकारस्य कुत्वाभावनिर्णयः, सूत्र आदैजिति प्रत्याहारस्यान्तर्भूतत्वात् प्रथमं प्रत्याहारप्रपञ्चस्य प्रतिपादनं समुचितमिति विचारः, वृद्धिसंज्ञायाः प्रत्येकं परिसमाप्तिरिति प्रतिपादनम्, वृद्धिसंज्ञायाः प्रयोगस्थलानि, अनुवृत्तिस्थलानि, वृद्धिशब्दस्य प्रयोजनम्, वृद्धिसन्धेर्विचारः, विभिन्नटीकाकाराणां मते सूत्रार्थविचारः, वृद्धिरादैच्सूत्रस्याष्टाध्याय्यां प्रभावश्चेत्यादयो विषया विवेचिता वर्तन्ते ।

Abstract
54
PDF (Nepali)
0

Downloads

Published

2026-01-28

How to Cite

वृद्धिरादैच्सूत्रविमर्शः. (2026). Kaumodaki: Journal of Multidisciplinary Studies, 6(01), 1-17. https://doi.org/10.3126/kdk.v6i01.90118

Issue

Section

Articles

How to Cite

वृद्धिरादैच्सूत्रविमर्शः. (2026). Kaumodaki: Journal of Multidisciplinary Studies, 6(01), 1-17. https://doi.org/10.3126/kdk.v6i01.90118