ध्वनिवर्णपदनिरूपणे पाणिनीयव्याकरणप्रक्रियाया वैज्ञानिकत्वनिरीक्षणम्
DOI:
https://doi.org/10.3126/kdk.v6i01.90126Keywords:
ध्वनिविज्ञानम्, पदविज्ञानम्, भाषाविज्ञानम्, वर्णविज्ञानम्, वाक्यविज्ञानम्Abstract
भाषाया आधारभूतं तत्त्वमस्ति ध्वनिः । ध्वनिश्च भेर्यादिवादनजन्मा पशुपक्ष्यादिभिः कृतोऽव्यक्तो वर्णाक्षरादिरहितः प्रथमकोटिकः परिकल्पितोऽस्ति । द्वितीयकोटौ तु विविधाषु भाषासु मानवानामुच्चारणसम्बद्धैरङ्गैः सरलतयोच्चायर्माणो वर्णादिरूपो ध्वनिः समायाति । भाषायासम्बद्धे वर्णात्मकः अक्षरात्मको ध्वनिरध्ययनस्य विषयोऽस्ति । ध्वनिमाश्रित्यैव भाषाणामक्षराणि निर्धार्यन्ते । तत एव वर्णानां पदानाञ्च निर्माणेन भाषिकव्यवहाराः प्रचलन्ति । ध्वनिश्च वर्णादिद्वारोच्चार्यमाणो मानवीय श्रुतिद्वारा गोचरीक्रियते । अत्र ध्वनिविषये वर्णविषये पदविषये च पाणिनीयव्याकरणेन निरूपणं यद् कृतं वर्तते तत्र आधुनिकभाषावैज्ञानिकदृष्ट्या अवलोकने पाणिनीयप्रक्रियाया अपि विज्ञानसम्मतत्त्वं साधयितुं शक्यते । अत्राध्ययने पाणिनीयव्याकरणामाधृत्य ध्वनिवर्णपदानां यथोत्तरं सूक्ष्मतः स्थूलतामधिरूढानां विवेचनं विधाय तत्र गता भाषावैज्ञानिकता कियत्यां मात्रायां सुसिद्धेति सोदाहरणं प्रदर्शितम् । इयं विश्लेषणप्रक्रिया तत्त्वातन्तराणां विवेचनेऽपि पाणिनिना भाषावैज्ञानिकीपद्धतिरवलम्बितेति प्रकाशयति । प्रस्तुतेऽस्मिनालेखे पाणिनीयव्याकरणप्रक्रियामाश्रित्य ध्वनिवर्णपदानां भाषावैज्ञानिकसरण्या सगभीरमध्ययनक्रमे शिक्षाप्रातिशाख्यतन्त्रनिरुक्तादिग्रन्थानां शब्दोत्पत्तिविषयकमतमनुसृत्य भाषाया तत्त्वानि विवेचितानि सन्ति । भाषोत्पत्तौ सम्प्राप्तपौरस्त्यविदुषां मतानि गोचरीकृत्य च यथावसरं सप्रपञ्चं समीक्षितं वर्तते । संस्कृतवाङ्मये यत्र विकीर्णतया विविधप्रसङ्गानुसारेण च शब्दार्थविचारो दृश्यते । अतः प्राचीनानां प्रातिशाख्य–निरुक्त–व्याकरणादिग्रन्थान्तर्गतानां तत्तद् ग्रन्थकर्तृणां महर्षीणां मतम्, भाषाविज्ञानविदां च सरणिमनुसृत्य पाणिनीयव्याकरणसम्बद्धाया भाषावैज्ञानिकपद्धतेरनुसारेण ध्वनिवर्णपदानां सगभीरमध्ययनं कृतम् । ध्वनिवर्णपदविषयसम्बद्धं पाणिनीयसिद्धान्तमवलम्ब्य यथामत्यभिनवोऽयमालेखः विरचितः ।
Downloads
Downloads
Published
How to Cite
Issue
Section
License

This work is licensed under a Creative Commons Attribution-NonCommercial 4.0 International License.
This license enables reusers to distribute, remix, adapt, and build upon the material in any medium or format for noncommercial purposes only, and only so long as attribution is given to the creator.