शाब्दबोधे निमित्तकारणानि

Authors

  • भोलानारायणरेग्मी Bholanarayan Regmi Department of Vyakaran (Sanskrit Grammar), Shree Vinduwasini Sanskrit Vidyapeeth (Campus), Pokhara, Nepal https://orcid.org/0009-0007-1223-8330

DOI:

https://doi.org/10.3126/kdk.v6i01.90128

Keywords:

आकाङ्क्षा, आसत्तिः, तात्पर्यम्, योग्यता, शाब्दबोधः

Abstract

शब्दस्यायं  शब्दे  भव आगतो जातो वा शाब्दः स चासौ बोधः शाब्दबोधः, अर्थात् शब्दप्रमाणजन्यत्वेन विषयीभूतो यो बोधः स शाब्दबोधपदेन व्यवहार्यः । तस्मिँश्च बोधे निमित्तकारणानि आकङक्षा- योग्यता- आसत्ति - तात्पर्याणि चतुर्विधानि सन्ति । तेषु वाक्यस्य यः समयः सङ्केतः, तद्ग्राहिका तद्विषयकबोधजनिका  आकाङ्क्षा भवतीत्यर्थः बोद्धव्यः । परस्परान्वयप्रयोजकधर्मवत्वं योग्यतात्वम्, यथा जलेन सिञ्चतीति वाक्यमिदं योग्यम्, परन्तु "वह्निना सिञ्चति" इति वाक्यमयोग्यं वह्नेः सेकान्वयप्रयोजकद्रवद्रव्यत्वाभावात् । पदस्य सन्निधानमासत्तिरुच्यते, प्रकृतान्वयबोधाऽननुकूलपदाव्यवधानमासत्तिरित्यर्थः, यथा "गिरिरग्निमान्" अस्मिन् वाक्ये आसत्तिर्विद्यते "गिरिर्भुक्त्तमग्निवान् देवदत्तेन" इत्यत्र च अनासन्नत्वान्न शाब्दबोधः, मन्दबुद्धिमतामविलम्बेन शाब्दबोधे  कारणत्वमासत्तौ विद्यत इति ध्येयम् ।  ईश्वरेच्छा तात्पर्यमिति वाक्यस्य ईश्वरेच्छा ईश्वरस्य परम्परया तत्तदर्थबोधने वाक्यप्रयोक्तृणां तात्पर्यसत्वादुपलक्षणम् । अत एव "वक्तुरिच्छा तु तात्पर्यम्" इति सिद्धान्तमुक्तावल्याः सिद्धान्तो निःसृतः ।  एतद्वाक्यं पदं वा एतदर्थबोधाय उच्चारणीयमितीश्वरीयेच्छारूपा "तात्पर्यार्थोऽपि केषुचिद्" इति च मतस्य सत्वात् कैश्चिद् तात्पर्यरूपस्य शाब्दबोधनिमित्तकारणे अनपेक्षितत्वेऽपि "सति तात्पर्ये सर्वे सर्वार्थवाचकाः" इति शाब्दिकानां नये भाष्यसिद्धान्तस्य सिद्धत्वादेव घटशब्दात् पटविषयकबोधो न भवति । तस्मात् शाब्दबोधे आकाङ्क्षादीनां निमित्तकारणत्वाद् नानार्थस्थले "सैन्धवमानय" इत्यत्र यात्राप्रसङ्गे घोटकरूपार्थं बोधयति न तु लवणरूपार्थमित्यस्मिन् लघ्वनुसन्धाने शाब्दबोधे निमित्तकारणानां पदज्ञानेन पदार्थोपस्थित्या सह शाब्दबोधरूपफलविषयीभूतानामाकाङ्क्षादीनां प्रमुखाणां प्रसङ्गसङ्गत्या तदन्तर्गतविषयाणां च  गभीरतया  विचारो विद्यत इति भावः ।

Downloads

Download data is not yet available.
Abstract
0
PDF (नेपाली)
0

Published

2026-01-28

How to Cite

भोलानारायणरेग्मी Bholanarayan Regmi. (2026). शाब्दबोधे निमित्तकारणानि. Kaumodaki: Journal of Multidisciplinary Studies, 6(01), 60–73. https://doi.org/10.3126/kdk.v6i01.90128

Issue

Section

Articles