पौरस्त्यसाहित्ये नाट्योत्पत्तिः

Authors

DOI:

https://doi.org/10.3126/kdk.v6i01.90131

Keywords:

प्रवृत्तिः, शैलूषः, लास्यम्, सूत्रधारः, प्रेक्षागारः, समवकारः, डिमः

Abstract

संस्कृतसाहित्ये नाट्यसाहित्यस्य स्थानं विपुलं वर्तते, यतो हि विश्वसाहित्ये संस्कृतसाहित्यस्य महिममण्डितं स्थानं प्रायेण नाट्यसाहित्येनैव निर्दिष्टमस्ति । एतादृशस्य नाट्यसाहित्यस्यारम्भः कथं समभवदिति जिज्ञासायाः समाधानायासोऽत्रालेखे विहितो वर्तते । तदर्थमत्र वेदे प्रयुक्तानां नाट्यसम्बद्धानां शब्दानां संवादाभिनयादीनां नाट्याङ्गानां समीक्षणं विहितमस्ति । पौराणिककाले नाट्यस्य विद्यमानतां तत्सम्पन्नतां च साधयितुमत्र रामायणे, महाभारते, ब्रह्मपुराणे, विष्णुपुराणे, श्रीमद्भागवतमहापुराणे चोपवर्णिता नाट्यसम्बद्धा विषया उपस्थापिता विद्यन्ते । सूत्रकाले नाट्याधिकारं प्रदर्शयितुं च नाट्यविषयसम्बद्धानि पाणिनिसूत्राणि तत्सन्दर्भितानि नटसूत्राणि चात्रोपस्थापितानि सन्ति । कौटिल्यस्यार्थशास्त्रे, वात्स्यायनस्य कामसूत्रे, जैनानां समवायाङ्गसूत्रे,  बौद्धधर्मसम्बद्धे विनयपिटके, पतञ्जलेर्महाभाष्ये च प्रवर्णिता नाट्यसन्दर्भाश्चात्र नाट्यारम्भविन्दोरन्वेषणे समुपस्थापिताः सन्ति । नाट्योत्पत्तिं विषयीकृत्य भरतेन नाट्यशास्त्रे सन्दर्भिताः प्रसङ्गा नाट्योद्गमविषयविश्लेषणे चात्रोपस्थापिता विद्यन्ते । पुनश्च लोकसंस्कृतिरपि नाट्यारम्भस्य कारणतामावोढुमर्हतीति धियात्र धार्मिकनृत्यादीनाम्, पुत्तलिकानृत्यस्य, छायानाटकस्य, वीरपूजायाः, रामलीलादीनाम्, प्राकृतिककर्मणां च नाट्यप्रवर्तनविन्दुत्वं विश्लिष्टमस्ति । भौतपुस्तकालयतः साञ्जालिकपुस्तकालयतश्च सामग्रीसङ्कलनं विधाय विषयविश्लेषणं कृत्वाऽऽलेखोऽयं सज्जीकृतो विद्यते । अत्र नूतनः सिद्धान्तः प्रतिपादितो नास्ति, अपि तु विदुषां पूर्वस्थापिताः सिद्धान्ताः विश्लिष्टाः सन्तीति आलेखोऽयं निगमनात्मको विद्यते । यद्यपि बहुभिर्विद्वद्भिर्नाट्योत्पत्तिविषयस्य समीक्षणं विहितमस्ति परं कैश्चिदपि नाट्योत्पत्तेर्विन्दुर्निश्चित्य निर्धारितं नास्ति । सर्वेषां मतसमीक्षणेन नाट्योत्पत्तिर्वस्तुतो मानवसभ्यताया विकाससमकालमेव व्यावहारिकरूपेण सञ्जातेति निष्कर्ष उपस्थापयितुं शक्यते । वाङ्मयदृशा तु वेदेषु नाट्यसम्बद्धानां तत्त्वानां सत्त्वाद् वेद एव नाट्योत्पत्तेर्विन्दुत्वेन ग्रहीतुं शक्यः ।

Downloads

Download data is not yet available.
Abstract
0
PDF (नेपाली)
0

Published

2026-01-28

How to Cite

शिवराजलामिछाने Shiva Raj Lamichhane. (2026). पौरस्त्यसाहित्ये नाट्योत्पत्तिः. Kaumodaki: Journal of Multidisciplinary Studies, 6(01), 88–105. https://doi.org/10.3126/kdk.v6i01.90131

Issue

Section

Articles