वर्णधर्मानुशीलनम्

Authors

  • Kashi Raj Pokharel Nepal Sanskrit University

Keywords:

प्रतिग्रहः, प्रतिलोमजाः, श्वपाकः, श्ववृत्तिः, पौण्ड्रकः

Abstract

ब्राहृमणाद्याश्चत्वारो वर्णाः सन्ति । वर्णव्यवस्थाया वर्णनं वेदस्मृतिपुराणादिषु ग्रन्थेषु सर्वत्र  विहितमुपलभ्यते । गृहस्थाश्रमवर्तीनां वर्णानां मध्ये ब्राहृमणानां साङ्गस्य वेदस्याध्यापनाध्ययने तथा यजनयाजने, दानप्रतिग्रहौ चेत्येतानि षट् कर्माणि शास्त्रेषु निरूपितानि सन्ति । तासु कर्मसु याजनाध्यापनप्रतिग्रहादीनि त्रीणि कर्माणि ब्राहृमणानां जीवनार्थानि मन्यन्ते । एवं वेदाध्ययनयजनदानादीनि त्रीणि कर्माणि ब्राहृमणानामिव क्षत्रियाणामपि कर्तव्यत्वेन निर्दिष्टानि सन्ति । अध्यापनयाजनप्रतिग्रहाख्यानि त्रीणि कर्माणि क्षत्रियाणां कृते निषिद्धानि मन्यन्ते । क्षत्रियाणां वृत्यर्थं धर्मार्थञ्च प्रधानं कर्म प्रजापालनमेव निर्दिष्टमस्ति । एवं वैश्यस्य यागाध्ययनदानानि कुसीदकृषिवाणिज्यपशुपालनानि च कर्माणि वृत्यर्थानि मन्यन्ते । शूद्रस्य तु धर्मार्थं वृत्यर्थञ्च प्रधानं कर्म द्विजातीनां परिचर्यैव धर्मशास्त्रकारैर्मन्यते । अनेन प्रकारेण शास्क्रोत्तकर्मणा जीवितुमशक्नुवन्नापादि धर्मशास्त्रे आपद्धर्मस्य व्यवस्था विहिता वर्तते । तत्र चापदि ब्राहृमणः क्षत्रियकर्मणा, क्षत्रियो वैश्यकर्मणा तथा वैश्योऽपि शूद्रकर्मणा व्यवहर्तुं शक्नोति । एवं शुद्रोऽपि द्विजातीनां सेवया जीवितुमशक्नुवन्नापदि विविधशिल्पकर्मभिर्जीवेदिति व्यवस्था विहिता  वर्तते । वर्णेषु च जातिव्यवस्था प्रदर्शिता वर्तते । तत्र वर्णेषु जातानां द्वादशानां पुक्राणां मध्ये शास्त्रोत्तविवाहविधिमनुसृत्य विवाहितसवर्णकन्यायां जात एक एवौरसः पुक्रः सवर्णः सजातीयश्च मन्यते । वर्णानामनुलोमविवाहेषु त्रमिकरूपेण मूर्धावसिक्त–अम्बष्ठ–निषाद–माहिष्य–उग्र–करणाख्याः षडनुलोमजाः पुत्रा जायन्ते । धर्मशास्त्रे प्रतिलोमविवाहस्य विधिर्नास्ति । तथापि प्रतिलोमजाः सूत–वैदेहक–चण्डाल–मागध–क्षत्राऽयोगवाख्याः षट् पुत्रा तत्रापि भवन्ति । संकीर्णजातीनां परस्परकन्यासु जाताःपुक्कस–कुक्कुटक–क्षेत्ता–श्वपाक–वेण–सैरिन्ध्र–मैत्रेयक–मार्गव–चर्मर्कार–अन्ध्र–मेद–सोपाक–अन्त्यवसायी–पाण्डुसोपाक–आहिण्डिकादयो विविधाः पुत्रा भवन्ति । तेषां सर्वेषां जात्यन्तरजातानां जातीनां कर्माणि च प्रतिपादितानि सन्ति । द्विजातयश्चोपनयनादिक्रियालोपेन यजनाध्ययनप्रायाश्चित्तादीनाञ्चाभावेन शनैः शनैः शूद्रतां गच्छन्ति । तेषु च पौण्ड्रक–चौड्र–द्रविड–काम्बोज–यवन–शक–पारद–पल्हव–चीन–किरात–दरद–खसाः क्रियालोपादिना शूद्रत्वमापन्ना मन्यन्ते । तेषां सर्वेषां संक्षिप्तविवरणमध्ययनेऽस्मिन् समुपस्थापितमस्ति । तत्र च गृहस्थानां वर्णानां प्राणयात्रार्थं दायाद्याः सप्त धनागमा धर्म्या मन्यन्ते । तेषां जीवनार्थं विद्याशिल्पादयो दश जीवनहेतवश्च निर्देशिताः सन्ति । 

Abstract
29
PDF
23

Author Biography

Kashi Raj Pokharel, Nepal Sanskrit University

Associate Professor

Downloads

Published

2026-09-01

Issue

Section

Original Research Articles

How to Cite

Pokharel, K. R. (2026). वर्णधर्मानुशीलनम्. KVM Research Journal, 7(1), 190-207. https://doi.org/10.3126/kvmrj.v7i1.99606