संस्कृतकवितासङ्ग्रहे विद्यमानानां स्फुटकवितानां साहित्यिकं समीक्षणम्
DOI:
https://doi.org/10.3126/ss.v3i03.83512Keywords:
अलङ्कारः, कवितासङ्ग्रहः, ध्वनिः, रसःAbstract
संस्कृतवाङ्मयविकासे नैपालकानां संस्कृतकाव्यकृतीनां महती भूमिका वर्तते । सन्दर्भेऽस्मिन् जयतुसंस्कृतसंम् इत्याख्यया संस्थया प्रकाशिते संस्कृतकवितासङ्ग्रहस्य महद्योगदानं विद्यते । अत्र शताधिकानां नैपालकानां कवीनां संस्कृतभाषानिबद्धाः कविताः समाविष्टा सन्ति । सङ्ग्रहेऽस्मिन् विद्यमानाः कविताः संस्कृतभाषां प्रत्यनुरागमूलिकाः, राजनैतिकविसङ्गतिप्रकाशिकाः विशिष्टानां व्यक्तीनां प्रशंसायां केन्द्रिताः, भगवत्स्तुतिप्रधानाः, प्रकृतिचित्रणमूलिकाः, देशभक्तेर्भावान्विताः, दार्शनिकशास्त्रीयविषयसमन्विताः नीत्युपदेशे केन्द्रीभूताश्च विद्यन्ते । अत्र सङ्कलिता अधिकाः कविताः देशस्य विविधानां समस्यानां चित्रणे केन्द्रीभूताः प्राप्यन्ते । सङ्ग्रहेऽस्मिन्नाभ्यासिकानां परिपक्वानाञ्च कवीनां समुपस्थित्या कवितासु भाषाशैलीगतं वैविध्यं संलक्ष्यते । अत्र सङ्कलिताः कविताः विविधरसगुणालङ्कारैविर्भूषिताः प्राप्यन्ते । देशे विद्यमानां विविधां समस्यां निराकृत्यादर्शसमाजनिर्माणेऽत्रत्याः कविताः प्रेरणादायिन्यः सन्ति । अतोऽयं कवितासङ्ग्रहे संस्कृतकाव्यजगतः समुत्थानाय समुन्नतसमाजनिर्माणाय चोल्लेख्यो वर्तते । अस्मिन् लेखे रसालङ्कारादिविवेचनसामग्रीभिर्विवेचनपद्धतिमग्रे सारितमस्ति । गुणात्मिकायामनुसन्धान- पद्धत्यामाधारितेऽस्मिननुसन्धाने द्वितीयकस्रोतयुतानां सामग्रीणां संयोजनं वर्तते ।