न्यायदर्शनदृष्ट्या ईश्वरनिरूपणम्
DOI:
https://doi.org/10.3126/ss.v3i03.83514Keywords:
ईश्वरः, न्यायदर्शनम्, पौरस्त्यवाङ्मयम्, प्रमाणम्, वैदिकसाहित्यम्Abstract
प्रस्तुतशोधालेखे न्यायदर्शनाभिमत ईश्वरो निरूपितो वर्तते । आस्तिकनास्तिकभेदेन पौरस्त्यदर्शनस्य द्विविधो भेदो दृश्यते । तयोर्न्यायदर्शनमास्तिकदर्शनमस्ति । इदं वेदप्रमाणमङ्गीकारात् वैदिकदर्शनमस्ति । न्यायदर्शने विशेषत अनुमानप्रमाणेन ईश्वरः साधितो वर्तते । अस्मिन् शोधालेखे न्यायदर्शने प्रतिपादितस्य ईश्वरस्य स्वरूपं विचार्य ईश्वरस्य सिद्धिः विशेषतः शब्दानुमानप्रमाणाभ्यां कृतो वर्तते । ईश्वरस्य सिद्धिं कृत्वा तस्य यथार्थस्वरूपमपि अस्मिल्लेखे प्रतिपादितं वर्तते । तदनन्तरं निष्कर्षत्वेन समाभूता विषया अस्य शोधालेखस्यान्ते संस्थापिता वर्तन्ते । निष्कर्षश्च न्यायदर्शस्य ईश्वरमधिकृत्य विरचितान् अनेकान् ग्रन्थान् अध्ययनेन संस्थापितो वर्तते । अयं लेख ईश्वरविषये समुद्भूतानां समस्यानां निराकरणे समुत्सुको वर्तते । यथोपलब्धं शोधविधिमाश्रित्य शोधः सम्पन्नः कृतो वर्तते ।