फलितज्योतिषशास्त्रस्य सङ्क्षिप्तविकासक्रमः
DOI:
https://doi.org/10.3126/ss.v3i03.83515Keywords:
जातकशास्त्रम्, ताजिकशास्त्रम्, फलितज्योतिषस्यैतिह्यम्, संहिताशास्त्रम्, होराशास्त्रम्Abstract
शोधकार्योऽयं ज्योतिर्वाङ्मये फलितज्योतिषशास्त्रस्य विषयानुगतः कालक्रमिकश्च विकासक्रमस्य गवेषणे विरचितः । त्रिस्कन्धात्मकं ज्योतिषशास्त्रं सिद्धान्तसंहिताहोरेति शाखात्रयेण विभाजितं विद्यते । तासु शाखासु प्रथमः सिद्धान्तस्कन्धो ग्रहनक्षत्रादि–आकाशीयपिण्डानां गतिस्थित्यादि खगोलीयमानप्रभेदमापको वर्तते । अस्य चर्चात्र स्वल्पमात्रमस्ति । अपरौ संहिताहोरास्कन्धौ ग्रहनक्षत्राद्याकाशीयपिण्डानां गतिस्थित्याधारे पृथ्व्यां मानवजीवने च शुभाशुभफलप्रभावस्य प्रकाशकशास्त्रे विद्येते । अतः संस्कृतभाषायां निबद्धे ज्योतिर्वाङ्मये संहिताशास्त्रं होराशस्त्रं च सम्प्रति फलितज्योतिषनाम्ना सम्बोधितमस्ति । फलितज्योतिषे संहिताशास्त्रात् मुख्यतः मुहूर्तशास्त्रम्, वास्तुशास्त्रम्, शकुनशास्त्रम्, स्वरशास्त्रम्, स्वप्नशास्त्रम्, प्रतिमालक्षणशास्त्रम्, रत्नपरीक्षणशास्त्रं विकसितं विद्यते । तदतिरिक्तानि अन्यानपि बहुविधविषयानि संहिताशास्त्रात् विकसितानि दृश्यन्ते । एवमेव होराशास्त्रात् जातकः, प्रश्नः, ताजिकः, सामुद्रिक (अङ्गलक्षण) शास्त्रम्, चेति वैयक्तिकफलादेशोपकारकाणि उपविभागानि विकसितानि विद्यन्ते । इत्थं संहिताहोराशास्त्रयोः संयोजनेन फलितज्योतिषशास्त्रं विकसितं वर्तते । वराहमिहिराचार्यकृतेन विश्लेषणेन ज्योतिषशास्त्रं त्रिस्कन्धेषु विभाजितम् । ततः संहिताहोराशास्त्रयोर्नवीनस्वरूपं विकसितं विद्यते । तदेव सम्प्रति फलितज्योतिषशास्त्रस्य शास्त्रीयसिद्धान्तः मन्यते । मिहिरविश्लेषणेन विरचितानि ग्रन्थरत्नानि केन्द्रविन्दुमत्वा तत्पूर्ववर्तिकालः फलितज्योतिषशास्त्रस्य प्राचीनार्षकालः तदुत्तरवर्तिकालश्च फलितज्योतिषशास्त्रस्यार्वाचीनकालो विकसितो विद्यते । संहिताशास्त्रस्य प्रचीनार्षकालं वैदिकसंहिताकालः, आर्षसंहिताकालो वेदाङ्ज्योतिषकालः, वाराहिसंहितापूर्वकाल इति चतुर्धा विभज्य तेषां वैशिष्ट्यमत्र प्रस्तुतमस्ति । तथैव संहिताशास्त्रस्य अर्वाचीनकालं ग्रन्थप्रणयनकालः, व्याख्याविवृत्तिटीकालेखनकालः, ग्रन्थसंग्रहकालश्चेति त्रिधा विभज्य तत्र रचितग्रन्थानां वैशिष्ट्यं प्रस्तुतं वर्तते । एवमेव होराशास्त्रस्य प्राचीनकालं वैदिकसंहिताकालः, प्राचीनार्षकालः, वेदाङ्गज्योतिषकालः, प्राचीनार्षोत्तरवर्ति वराहमिहिरपूर्ववर्तिकालश्चेति चतुर्धा विभज्य तेषां वैशिष्ट्यमत्र प्रस्तुतमस्ति । एवमेव होराशास्त्रस्याधुनिककालं जातकः, प्रश्नः, ताजिकः, सामुद्रिकम्, रमलम्, स्वप्नश्चेति विषयगतविकासस्य वैशिष्ट्यमत्र प्रस्तुतमस्ति । प्रकृते शोधसन्दर्भे फलितज्योतिषशास्त्रस्य ऐतिह्यं पर्यावलोक्य एतत्छास्त्रस्य प्रवर्तनोद्भवः शास्त्रीयाधरः कालक्रमो विषयक्रमश्च सङ्केतपूर्वकं ग्रन्थानुगतिको विकासक्रममत्र प्रस्तावितं विद्यते। पुनश्च नेपाले विरचितानां ज्योतिषग्रन्थानां ऐतिह्यमप्यत्र प्रदर्शितं विद्यते ।