वर्णधर्मानुशीलनम् [Caste practice]

Authors

  • काशीराज पोख्रेलः धर्मशास्त्रम् नेसंवि, विश्वविद्यालयविद्यापीठम्, बेलझुन्डी, दाङः, नेपाल

DOI:

https://doi.org/10.3126/haimaprabha.v21i01.44832

Keywords:

प्रतिग्रहः,, प्रतिलोमजाः,, श्वपाकः,, श्ववृत्तिः,, पौण्ड्रकः

Abstract

ब्राह्मणाद्याश्चत्वारो वर्णाः सन्ति । वर्णव्यवस्थाया वर्णनं वेदस्मृतिपुराणादिषु ग्रन्थेषु सर्वत्र  विहितमुपलभ्यते । गृहस्थाश्रमवर्तीनां वर्णानां मध्ये ब्राह्मणानां साङ्गस्य वेदस्याध्यापनाध्ययने तथा यजनयाजने, दानप्रतिग्रहौ चेत्येतानि षट् कर्माणि शास्त्रेषु निरूपितानि सन्ति । तासु कर्मसु याजनाध्यापनप्रतिग्रहादीनि त्रीणि कर्माणि ब्राह्मणानां जीवनार्थानि मन्यन्ते । एवं वेदाध्ययनयजनदानादीनि त्रीणि कर्माणि ब्राह्मणानामिव क्षत्रियाणामपि कर्तव्यत्वेन निर्दिष्टानि सन्ति । अध्यापनयाजनप्रतिग्रहाख्यानि त्रीणि कर्माणि क्षत्रियाणां कृते निषिद्धानि मन्यन्ते । क्षत्रियाणां वृ¤यर्थं धर्मार्थञ्च प्रधानं कर्म प्रजापालनमेव निर्दिष्टमस्ति । एवं वैश्यस्य यागाध्ययनदानानि कुसीदकृषिवाणिज्यपशुपालनानि च कर्माणि वृ¤यर्थानि मन्यन्ते । शूद्रस्य तु धर्मार्थं वृ¤यर्थञ्च प्रधानं कर्म द्विजातीनां परिचर्यैव धर्मशास्त्रकारैर्मन्यते । अनेन प्रकारेण शास्त्रोक्तकर्मणा जीवितुमशक्नुवन्नापादि धर्मशास्त्रे आपद्धर्मस्य व्यवस्था विहिता वर्तते । तत्र चापदि ब्राह्मणः क्षत्रियकर्मणा, क्षत्रियो वैश्यकर्मणा तथा वैश्योऽपि शूद्रकर्मणा व्यवहर्तुं शक्नोति । एवं शुद्रोऽपि द्विजातीनां सेवया जीवितुमशक्नुवन्नापदि विविधशिल्पकर्मभिर्जीवेदिति व्यवस्था विहिता  वर्तते । वर्णेषु च जातिव्यवस्था प्रदर्शिता वर्तते । तत्र वर्णेषु जातानां द्वादशानां पुत्राणां मध्ये शास्त्रोक्तविवाहविधिमनुसृत्य विवाहितसवर्णकन्यायां जात एक एवौरसः पुत्रः सवर्णः सजातीयश्च मन्यते । वर्णानामनुलोमविवाहेषु क्रमिकरूपेण मूर्धावसिक्त–अम्बष्ठ–निषाद–माहिष्य–उग्र–करणाख्याः षडनुलोमजाः पुत्रा जायन्ते । धर्मशास्त्रे प्रतिलोमविवाहस्य विधिर्नास्ति । तथापि प्रतिलोमजाः सूत–वैदेहक–चण्डाल–मागध–क्षत्राऽयोगवाख्याः षट् पुत्रा तत्रापि भवन्ति । संकीर्णजातीनां परस्परकन्यासु जाताःपुक्कस–कुक्कुटक–क्षेत्ता–श्वपाक–वेण–सैरिन्ध्र–मैत्रेयक–मार्गव–चर्र्मकार–अन्ध्र–मेद–सोपाक–अन्त्यवसायी–पाण्डुसोपाक–आहिण्डिकादयो विविधाः पुत्रा भवन्ति । तेषां सर्वेषां जात्यन्तरजातानां जातीनां कर्माणि च प्रतिपादितानि सन्ति । द्विजातयश्चोपनयनादिक्रियालोपेन यजनाध्ययनप्रायाश्चित्तादीनाञ्चाभावेन शनैः शूद्रतां गच्छन्ति । तेषु च पौण्ड्रक–चौड्र–द्रविड–काम्बोज–यवन–शक–पारद–पल्हव–चीन–किरात–दरद–खसाः क्रियालोपादिना शूद्रत्वमापन्ना मन्यन्ते । तेषां सर्वेषां संक्षिप्तविवरणमध्ययनेऽस्मिन् समुपस्थापितमस्ति । तत्र च गृहस्थानां वर्णानां प्राणयात्रार्थं दायाद्याः सप्त धनागमा धम्र्या मन्यन्ते । तेषां जीवनार्थं विद्याशिल्पादयो दश जीवनहेतवश्च निर्देशिताः सन्ति ।

Downloads

Download data is not yet available.
Abstract
79
PDF
75

Author Biography

काशीराज पोख्रेलः , धर्मशास्त्रम् नेसंवि, विश्वविद्यालयविद्यापीठम्, बेलझुन्डी, दाङः, नेपाल

सहप्राध्यापकः

Downloads

Published

2022-05-17

How to Cite

पोख्रेलः क. (2022). वर्णधर्मानुशीलनम् [Caste practice]. Haimaprabha, 21(01), 10–26. https://doi.org/10.3126/haimaprabha.v21i01.44832