प्रत्यक्षोत्पत्तौ सन्निकर्षस्य हेतुत्वोपपादनम् [Pratikotpattau sannikarsasya hetutvoppadanam]

Authors

  • रघुनाथ Raghunatha नेपालः Nepal न्यायविभाग नेसंवि, विश्वविद्यालयविद्यापीठस्य, बेलझुन्डी, दाङ, नेपाल

DOI:

https://doi.org/10.3126/haimaprabha.v21i01.44863

Keywords:

प्रमाणम्, प्रत्यासत्तिः, सामान्यलक्षणा, ज्ञानलक्षणा, योगजः

Abstract

अस्मिन्नालेखे न्यायदर्शनोक्तस्य प्रत्यक्षज्ञानोत्पत्तिकारणीभूतस्य लौकिकालौकिकभेदभिन्नस्य सन्निकर्षस्य स्वरूपं परिशीलितमस्ति । न्यायदर्शने तत्समानतन्त्रभूते वैशेषिकदर्शने च प्रत्यक्षप्रमारूपं ज्ञानं तत्करणरूपं प्रत्यक्षप्रमाणञ्च सुविस्तृततया चिन्तितमस्ति । एतच्चिन्तनक्रमे नैयायिकैः प्रत्यक्षप्रमायाः जननार्थं संयोगादिषड्विधसन्निकर्षाणां योगजादिलक्षणरूपत्रिविधालौकिकसन्निकर्षाणाञ्च स्वरूपं चिन्तितमस्ति । सुविस्तृते महति न्यायशास्त्रे तत्समानभूते वैशेषिके च दर्शने अयं विषयो यत्र तत्र विचारितो वर्तते ।  किन्तु बहुत्र प्रसृतानां सन्निकर्षविषयकाणां विभिन्नाचार्योक्तविविधमतानामेकत्र संग्रहो नैवालोक्यते । कतिपयैरर्वाचीनैः विद्वद्भिः स्वरचितप्रकरणग्रन्थेष्वयं विषयः प्रत्यक्षप्रमाणविवेचनक्रमे  प्रासङ्गिकतया प्रतिपादितमस्ति । किन्तु तत्रापि बहूनां विषयाणां समावेशात् विषयस्यैतन्मात्रस्य चिन्तनाभावाच्च जिज्ञासूनां मन्दमतीनां न्यायशास्त्रप्रविविक्षूणां बालानाञ्च एतत्स्वरूपनिर्धारणे क्लेशो जायते । अतः सन्निकर्षमात्रस्य स्वरूपं सोदाहरणं लक्षणञ्च परिशील्य अस्य प्रत्यक्षप्रमोत्पत्तौ  कथमुपयोगित्वं वर्तत इति निर्धारणीयम्, तदर्थञ्चेदं लघ्वनुसन्धानकार्ये प्रवृत्तिः । एतच्चिन्तनक्रमे प्रासङ्गिकतया समागतानां प्रत्यक्षप्रमा–तत्करणीभूतप्रत्यक्षप्रमाणादीनां च स्वरूपं संक्षेपतः परिचाय्यतेऽत्र । प्रत्यक्षप्रमोत्पत्तौ संयोग–संयुक्तसमवाय–संयुक्तसमवेतसमवाय–समवाय–समवेतसमवाय–विशेषणविशेष्यभावरूपाणां षड्विधानां सन्निकर्षाणां तथैव क्वचित्सामान्यलक्षण–ज्ञानलक्षण–योगजरूपाणाञ्च त्रिविधानामलौकिकसन्निकर्षाणां चात्यन्तमुपयोगिता वर्तते, न तैर्विना प्रत्यक्षप्रमा जायते, न वा प्रत्यक्षप्रमाणस्य प्रमाणत्वञ्च सिद्ध्यति । एतदेवात्रालेखे विभिन्नानामाचार्याणां मतानि प्रदश्र्य तद्विवेचनपुरस्सरं स्वकीयया सरलया गिरा प्रत्यक्षप्रमोत्पत्तौ सन्निकर्षस्य हेतुत्वं वर्तत इत्येवं निष्कर्षः स्थापितो वर्तते । एतदर्थञ्च पुस्तकालयविधिमनुसृत्य लेखकमितिपद्धत्यनुसारेण विषयो निष्कृष्टो विद्यते । मन्येऽनेनानुसन्धानमूलकालेखेन सन्निकर्षविषयकयथार्थस्वरूपस्य ज्ञानार्थं समुत्सुकानां समेषां लाभो भवेदिति ।

Downloads

Download data is not yet available.
Abstract
63
PDF
45

Author Biography

रघुनाथ Raghunatha नेपालः Nepal, न्यायविभाग नेसंवि, विश्वविद्यालयविद्यापीठस्य, बेलझुन्डी, दाङ, नेपाल

उपप्राध्यापक

Downloads

Published

2022-05-17

How to Cite

नेपालः Nepal र. R. (2022). प्रत्यक्षोत्पत्तौ सन्निकर्षस्य हेतुत्वोपपादनम् [Pratikotpattau sannikarsasya hetutvoppadanam]. Haimaprabha, 21(01), 183–195. https://doi.org/10.3126/haimaprabha.v21i01.44863