चन्द्रसम्भवमहाकाब्ये मौद्गल्यबंशबीजबैशिट्यम्

Authors

  • गुरुप्रसाद Guruprasad कोइराला Koirala ने.सं.वि.पिण्डेश्वरविद्यापीठम्, धरानः Nepal Sanskrit Biddhyapeetham, Dharan

DOI:

https://doi.org/10.3126/pj.v4i1.44932

Keywords:

नारायणः, यज्ञः, तपः, मुद्गलः, मौद्गल्य, क्षत्रियः, ब्रह्मणः, कुलम्,, वंशः

Abstract

नैपालकसंस्कृतकविसम्प्रदायस्यापरः  सर्जको  विद्यते  यज्ञशर्मसुरिः  ।  अनेनविक्रमवर्षस्याष्टादशशतके चन्द्रसम्भवमहाकाव्यं प्रणीतम् । अत्र चन्द्रवंशसम्भवानां राज्ञां वर्णनं विद्यते।अस्य लेखस्य विषयस्तु महर्षिमुद्गलात् प्रथितो मौद्गल्यवंशवैशिष्ट्यप्रकाशनमेव ।प्रसिद्धपुरुवंशे सञ्जातो भम्र्यास्वः क्षत्रीय राजा आसीत् । अस्य मुद्गलः, यवीनरः, वृहदिश्वः,कापिञ्जलः, जयश्चेति पञ्च पुत्राः सञ्जाताः । मुद्गलो जन्मगुणकर्मभिश्च ज्येष्ठ आसीत् । मुद्गलःस्वभावेनैव सुशीलः, शान्तः, विनम्रश्चासीत् । अत एवासौ राज्यादिशासनसौख्यं भ्रातृजनेषु समप्र्ययुवावस्थायामेव देवाराधनार्थं वनमगच्छत् । प्रियमेधादयः स्वपूर्वजाः क्षत्रीयराजानस्तपशक्त्या ब्राह्मणाजाता इति स्ववंशवृद्धैवचनैर्मुद्गलः तेषां मार्गे प्रेरितः । वने कठोरतपश्चर्यां संलग्नस्य मुद्गलस्यतपोबलेन स्वर्लोकोऽपि कम्पितो जातः । निजस्थानविनाशशङ्कया भयभीतैर्देवैः तपःकार्यादपकर्तुंअप्सरगणाः प्रेषिताः । गीतनृत्यादिगुणसम्पन्नाभिर्देवाङ्नाभिरङ्गप्रदर्शनपुरस्सरं गीतं नृत्यञ्चोपस्थाप्यशृङ्गारसारं प्रस्तुतम् । अनेकैरूपायैरपि स्वोद्देश्यपूर्तये पराजिता अप्सराः स्वर्लोके प्रत्यागमनमकुर्वन् ।मुद्गलस्य तपस्तु क्रमशः परिणामफलप्राप्त्यर्थमुन्मुखोऽभवत् । तपस्यया वशीकृतो भगवान् नारायणःस्वयमुपस्थितवान् । भगवतो नारायणस्य दर्शनमवाप्य मुद्गलः सुकोमलैर्वचोभिः स्तुतिमकरोत् । तपसास्तुत्या च प्रसन्नो हरि इप्सितवरलाभार्थं मुद्गलमपृच्छत् । मुद्गलोऽपि – सर्वज्ञोऽसि त्वम्, तथापिवच्मि यत् अहम् ब्रह्मत्वं प्राप्तुमिच्छामि इति कथितवान् । भगवता कथितम्– त्वं ब्राह्मणमेव नापितुसोत्तममुनित्वेन सुप्रसिद्धो भविष्यसि, तव वंशश्च मौद्गल्यब्रह्मवंशरूपेण लोके विवर्धयिष्यति ।इप्सितवरमवाप्य मुद्गलः काञ्चीदेशमगच्छत् । तत्र सुदीर्घकालपर्यन्तं वैदिकसनातनधर्मप्रसारेसंलग्नोऽभवत् । अनन्तरं मुद्गलः स्वकीयवंशविस्तारार्थमेकां ब्राह्मणकन्यामुवाह । गृहस्थ–जीवनस्यानन्दमनुभवनस्य दिवोदासनामक एकः पुत्रः, अहल्यानामिका एका पुत्री च सञ्जाता । पुœयाअहल्याया गौतमेन सह विवाहं कृतवान् । एतयोः पुत्रः शतानन्दोऽभूत् । पुत्रस्तु उपनयनसंस्कारंसम्पाद्यानेन कुलपूजनविधिना प्रशिक्षितः । अनन्तरं काचित् ब्राह्मणकन्यया सह पुत्रस्य विवाहकार्यमपिसम्पादितम् । अहं पितृऋणाद्मुक्तो जात इति विचार्य पुत्रं गृहस्थधर्मोत्तराधिकारित्वेनोपदिश्य मुद्गलः स्वं भगवच्चरणारविन्दे समर्पितः ।

Downloads

Download data is not yet available.
Abstract
61
PDF
39

Author Biography

गुरुप्रसाद Guruprasad कोइराला Koirala, ने.सं.वि.पिण्डेश्वरविद्यापीठम्, धरानः Nepal Sanskrit Biddhyapeetham, Dharan

सहप्राध्यापकः Associate Professor

Downloads

Published

2021-06-30

How to Cite

कोइराला Koirala ग. G. (2021). चन्द्रसम्भवमहाकाब्ये मौद्गल्यबंशबीजबैशिट्यम् . Pragyajyoti, 4(1), 14–23. https://doi.org/10.3126/pj.v4i1.44932

Issue

Section

Articles