सोपसर्गक्रियापदरचनाविमर्शः

Authors

  • टीकाराम Tikaram दहालः Dahal ने.सं.वि.पिण्डेश्वरविद्यापीठम्, धरानः Nepal Sanskrit Biddhyapeetham, Dharan

DOI:

https://doi.org/10.3126/pj.v4i1.45241

Keywords:

सुप्प्रत्ययाः, तिङ्प्रत्ययाः, सकर्मकः, पदविभागः, उपसर्गः, सोपसर्गः

Abstract

उपसर्गाश्च वैदिककालादेव पदविभागेषु परिगणिताः सन्ति । प्र–परा–अप–समित्यादयउपसर्गाः क्रियावाचिभ्यः धातुभ्यः (क्रियापदेभ्यः) पूर्वं संयोजिताः भवन्ति । धातोः क्रियापदस्यरचनानन्तरं विशेषार्थाभिव्यञ्जनाय धातोः पूर्वमुपसर्गाः संयुज्यन्ते । पूर्वं धातुः साधनेन तिङ्प्रत्ययेनयुज्यते पश्चात्तदर्थद्योतकेनोपसर्गेण युज्यते इति सिद्धान्तः वर्तते । उपसर्गाः न हि स्वतन्त्रमर्थमावहन्ति,एते तु धातोरर्थमेव द्योतयन्ति, परिवर्तयन्ति, परिवर्धयन्ति च । धातवः उपसर्गाश्चानेकार्थाः स्मृताःसन्ति । एतयोरर्थस्यानिश्चितत्वादेवैते ऽनेकार्था उक्ताः स्युः । सर्वेषां शब्दानां, सर्वेषां क्रियापदानांमूलरूपः धातुरेव विद्यते । धारयति पोषयति इति धातुरिति व्युत्पत्या सर्वेषां पदानामाधारभूतः पोषकः,तŒवरूपः शब्दराशिः धातुरिति शब्दस्यार्थः भवति । धातुः शब्दस्यार्थो धारयिता पोषयिता वा भवति ।एतेन धातुः नहि केवलक्रियापदस्यापि तु सर्वेषां पदानाञ्चाधारभूतः परिपोषको वर्तते । धातवः दशसुगणेषु विभज्य पठिताः सन्ति । कर्मग्रहणदृशा सकर्मकाकर्मकद्विकर्मकाश्च धातवः भवन्ति ।व्युत्पादनदृशा धातवः, औपदेशिका आतिदेशिकाश्च भवन्ति । औपदेशिकाः धातवः दशगणेषु सम्बद्धाःधातुपाठे पठिताः सन्ति । सकर्मकत्वञ्च फलव्यधिकरणव्यापारवाचकत्वं वर्तते । नियमेन यस्यार्थस्यकर्मसंज्ञा भवति तस्यार्थेन सह धात्वर्थस्यान्वयो भवति, स धातुः सकर्मको भवति । धात्वर्थयोःफलव्यापारयोः भिन्नाश्रये भिन्ननिष्ठतायां वा धातुः सकर्मकः भवति । अकर्मकत्वञ्चफलसमानाधिकरण–व्यापारवाचकत्वमकर्मकत्वं वर्तते । धात्वर्थफलव्यापारयोः एकनिष्ठतायामेकाश्रयेवा धातुरकर्मको भवति अर्थात् फलव्यापारौ यत्र एकैव स्थाने तिष्ठतश्चेत् स अकर्मकः धातुरितिकथ्यते । विशिष्टार्थाभिव्यक्तये धातुना सह उपसर्गस्य योगः क्रियते । उससर्गसहिता क्रिया सोपसर्गाकथ्यन्ते । एतेनानेकेषां धातूनां रूपावली ज्ञाने लाघवो भवति । भावाभिव्यक्तये सारल्यतामावहति ।भाषा च परिष्कृता भवति । अतोऽत्र सोपसर्गक्रियापदरचनाविधिः तदर्थश्च सोदाहरणं विश्लिष्यते ।

Downloads

Download data is not yet available.
Abstract
55
PDF
37

Author Biography

टीकाराम Tikaram दहालः Dahal, ने.सं.वि.पिण्डेश्वरविद्यापीठम्, धरानः Nepal Sanskrit Biddhyapeetham, Dharan

Assistant Professor

Downloads

Published

2021-06-30

How to Cite

दहालः Dahal ट. T. (2021). सोपसर्गक्रियापदरचनाविमर्शः. Pragyajyoti, 4(1), 24–34. https://doi.org/10.3126/pj.v4i1.45241

Issue

Section

Articles