स्फाेटविमर्शः
Keywords:
ध्वनिः, ध्वनिव्यङ्ग्यत्वम्, वर्णः, वाक्यस्फोटः, स्फोटः, शब्दतत्त्वम्Abstract
संस्कृतव्याकरणशास्त्रं विश्वस्मिन् उपलब्धेषु व्याकरणेषु प्राचीनतमं समृद्धं च वर्तते । पाणिन्यादिभिर्महर्षिभिः संस्कृतव्याकरणस्य समुन्नत्यै महान् आयासो विहितः । संस्कृतव्याकरणं न केवलं शब्दशास्त्रम्, अपि तु दार्शनिकविषयानपि इदं प्रकाशयति । व्याकरणप्रतिपादितेषुविषयेषुस्फोटसिद्धान्तोमुख्यस्थानंधारयति।वैयाकरणैरिदमखिलंजगत्शब्दब्रह्मणोविवर्तभूतंमन्यते, तच्चशब्दब्रह्म 'स्फोट' इतिनाम्नाव्यवह्रियते।प्रस्तुतेऽस्मिन् लेखे स्फोटस्य स्वरूपम्, व्युत्पत्तिः, परम्परा, तात्त्विकाधारश्च सम्यग् विवेचिताः सन्ति ।अनुसन्धानार्थं सामग्रीसंकलने पुस्तकालयीयविधिः प्राधान्येन अङ्गीकृतः । अध्ययने च मुख्यरूपेण वर्णनात्मकोविश्लेषणात्मकश्च विधिरवलम्बितोऽस्ति ।यथावश्यकं तुलनात्मकविधिरपि समाश्रितः, येन मीमांसकानां नैयायिकानां वैयाकरणानां च शब्दस्वरूपविषयकानि मतानि परस्परं समीक्षितानि सन्ति । एवञ्च स्फोटायन-पतञ्जलि-भर्तृहरि-कौण्डभट्ट-नागेशभट्टादीनामाचार्याणां स्फोटविषयकमतानि सप्रमाणं विश्लेषितानि। वैयाकरणमतेवाक्यस्फोटस्यैव मुख्यत्वमस्ति । वर्णाः पदानि च व्यावहारिकाः कल्पिताश्च सन्ति । वस्तुतस्तु अखण्डं वाक्यमेव नित्यं शब्दतत्त्वं शक्त्याश्रयश्च वर्ततइति निष्कर्षः स्थापितो वर्तते । अस्य लेखस्याध्ययनेन अध्येतारः स्फोटसिद्धान्तस्य दार्शनिकस्वरूपं महत्त्वमावश्यकत्वञ्च सम्यगवगन्तुं शक्नुवन्ति ।