संस्कृतसाहित्यस्थरसविचारः
Keywords:
अनुभावः, उपमा, व्यभिचारी, विभावः, सहृदयःAbstract
संस्कृतसाहित्यजगति रसस्य चर्चया साकं रसाध्ययनं व्याख्यानञ्चसाहित्यस्य पौरस्त्यपाश्चात्त्यक्षेत्रयोरेव बहुत्र कृतमस्ति । रसविवेक इति शीर्षकस्य आलेखेऽस्मिन् साहित्यिकनवरसानां नानास्वरूपाणां सूक्ष्मविवेचना कृतास्ति । रसशास्त्र काव्यशास्त्रस्य महत्त्वपूर्णमङ्गं विद्यते, यः पाठकानां श्रोतृणां वा हृदयोत्पन्नानुभूतेः विश्लेषणं करोति । अत्र नाट्यशास्त्रस्याद्याचार्य भरतमुनेः रससिद्घान्तमाधारीकृत्य रसपरिभाषा कृता । एवं रीत्या भरतस्यैव सूत्रमाधारीकृत्य भेदाः, उत्पत्तिकारकतत्त्वानि च लेखेऽस्मिन् सन्दर्शितानि सन्ति । रसस्यानुभूतिर्वा रसास्वादनं समवेतप्रक्रियास्तीति अत्र स्पष्टीकृतं वर्तते । रसोत्पादने कवेः प्रतिभा, पाठकस्य श्रोतृणां दर्शकानाञ्च संवेदनशीलतायाः कलासौन्दर्यस्य च प्रस्तुतिः युगपदेव सञ्चलति , अतः रसव्युत्पादनं सरलतया भवति । विशेषतः आलेखे रसानां उत्साहशमनिर्वेदादिनवस्थायिभावानां परिचयं दत्त्वा श्रृङ्गारवीरकरूणाद्भुतहास्यभयानकरौद्रबीभत्सशान्तानां सोदाहरणं परिचयश्च व्याख्यानं कृतमस्ति । रसाभ्यन्तरेऽभि विभावानुभावव्यभिचारिभावानां रससहायकतत्त्वानां भूमिकाविषयेऽ अत्र सम्यन्निरूपितं वर्तते ।रसविषये उत्पत्तिवादानुमितिवादभुक्तिवादाभव्यक्तिवादान्नाधारीकृत्य पदवाक्यप्रमाणज्ञानां मतान्तरप्रदर्शनपूर्वकं कृतं विपुलं विचारमन्थनं च प्रर्दर्श्य रसस्य बाह्यस्वरूपं तिरोधाय आन्तरिकस्वरूपस्यास्मिन् लेखे सम्यक् प्रस्तुतं वर्तते । चरमेऽनुसन्धानात्मकालेखोऽयं पाठकान् न केवलं रसस्य नामानि रसस्य परिभाषाविषये शिक्षयति अपि तु रसनामन्तर्बोधं कारयति । असौ संस्कृतकाव्यसाहित्यस्य सौन्दर्यबोधः, सौन्दर्यचामत्कृतिश्च आत्मसात्कर्तुं सुतरां प्रेरयति ।