पाणिनीयव्याकरणतन्त्रे प्रयुक्तानां न्यायसिद्धपरिभाषाणां विमर्शः

Authors

  • टीकाराम Tikaram दाहालः Dahal पिण्डेश्वर–विद्यापीठम् धरान Pindeshwor Campus, Dharan

DOI:

https://doi.org/10.3126/ss.v1i1.59804

Keywords:

खिलपाठः, ज्ञापकसिद्धा, न्यायसिद्धा, वाचनिकी, सूत्रात्मिका

Abstract

पाणिनीयव्याकरणशास्त्रपरम्परायां भाष्यवार्तिकादिषु च ग्रन्थेषु वचनरूपेण पठिता अनेकाः परिभाषाः प्रचलिताः सन्ति । ताः कतिपयाः परिभाषाः पाणिनीयैः सूत्रैः सूत्रांशैर्वा ज्ञापिताः सन्ति । अन्याश्च कतिपयाः परिभाषा महाभाष्ये प्राचीनवार्तिकग्रन्थेषु च पठिताः सन्ति । परिभाषाः प्रदीपवत्शास्त्रस्थं ज्ञानं प्रकाशयन्ति । पाणिनीयव्याकरणशास्त्रपरम्परायां प्रचलिताः परिभाषा भाष्यवार्तिकतोऽतिरिक्तमनेकैर्मनीषिभिः समाकलिता व्याख्याताश्च सन्ति । तत्राधुना ‘परिभाषाप्रदीपः’ ‘परिभाषाप्रदीपार्चिः’ ‘परिभाषेन्दुशेखर’ इत्यादयः परिभाषाविषयसम्बद्धा ग्रन्थाः प्रकाशिताः प्राप्यन्ते । एतेषु नागेशविरचितः परिभाषेन्दुशेखरोऽतितरां शिखरायते । संस्कृतभाषायाः पाणिनीयव्याकरणशास्त्र–परम्परातोऽतिरिक्तासु सारस्वत–कातन्त्र–सिद्धहैमादिसंस्कृतव्याकरण–परम्परास्वपि परिभाषाणां पाठ उपलभ्यते । महर्षिणा पाणिनिना ‘अष्टाध्यायां’ सूत्ररूपेण पठिताः ‘इको गुणवृद्धी’, ‘आद्यन्तौ टकितौ’, ‘अचश्च’, ‘स्थानेऽन्तरतमः’, इत्यादिकाः परिभाषाः सूत्रात्मिकाः सन्ति । एतद्भिन्नाः प्राचीनपाणिनीय–शास्त्रेषु भाष्यवार्तिकादिषु च वचनरूपेण पठिताः परिभाषा वाचनिकाः सन्ति । पाणिनीयैः सूत्रैः सूत्रांशैर्वा ज्ञापिताः परिभाषा ज्ञापकसिद्धा मन्यन्ते । लोकव्यवहारेण नीतिना च सिद्धा तथा शास्त्रीयेन न्यायेन सिद्धाः परिभाषा न्यायसिद्धाः सन्ति । परिभाषाग्रन्थेषु सूत्रात्मिकाः परिभाषा विहायान्यविधा एव परिभाषा व्याकृता विद्यन्ते । परिभाषेन्दुशेखरे नागेशेनैताः परिभाषास्त्रिषु शास्त्रत्वसम्पादन–बाधबीज–शास्त्रशेषप्रकरणेषु विभज्य व्याख्याताः सन्ति । एतासु परिभाषासु न्यायसिद्धाः परिभाषा विशेषमहत्वमावहन्ति । लोकनीत्यनुकूलो शास्त्रीयो व्यवहार एव न्यायसिद्धपरिभाषाणामाधारो दृश्यते । येन प्रकारेण लोकव्यवहारः सम्पद्यते तेनैव प्रकारेण व्याकरणशास्त्रे शास्त्रीयो व्यवहारश्च सम्पद्येत इति न्यायमूलकानां परिभाषाणां प्रस्थानविन्दुर्विद्यते । न्यायसिद्धाभिः परिभाषाभिस्तात्कालिकायाः समाजव्यवस्थायाश्च स्वरूपं ज्ञाप्यते । पाणिनीयव्याकरणतन्त्रे प्रसिद्धानां परिभाषाणामध्ययनक्रमे तत्रोक्तानां न्यायसिद्धानां परिभाषाणामन्वेषणायात्र मधुकरपद्धतिरवम्बिता विद्यते । न्यायसिद्धपरिभाषाणां विश्लेषणाय वर्णनात्मको विश्लेषणात्मकश्च विधिरवलम्ब्यते । पाणिनीयव्याकरणशास्त्रपरम्परायां लोकन्यायाश्रिताः शास्त्रीयन्यायाश्रिताश्चानेकाः परिभाषाः शास्त्रीयकार्यसम्पादनाय प्रयुज्यमानाः दरीदृश्यन्ते । तासामुपस्थापनमाधुनिकपद्धत्या विश्लेषणञ्चास्य लेखस्य प्राप्तिर्विद्यते ।

Downloads

Download data is not yet available.
Abstract
30
PDF
27

Author Biography

टीकाराम Tikaram दाहालः Dahal, पिण्डेश्वर–विद्यापीठम् धरान Pindeshwor Campus, Dharan

उपप्राध्यापकः व्याकरणविभागः

Downloads

Published

2023-11-09

How to Cite

दाहालः Dahal ट. T. (2023). पाणिनीयव्याकरणतन्त्रे प्रयुक्तानां न्यायसिद्धपरिभाषाणां विमर्शः . शोधसुधा Shodh Sudha, 1(1), 15–26. https://doi.org/10.3126/ss.v1i1.59804

Issue

Section

Articles