पाणिनीयव्याकरणव्याख्याने नेपालदेशीयमवदानम्

Authors

  • Bhawani Shankar Bhattarai नेपालसंस्कृतविश्वविद्यालयः

Keywords:

चन्द्रगोमी, नेपाले पाणिनीयव्याकरणव्याख्यानम्, लिच्छविकालिकसंस्कृतवाङ्मयम्

Abstract

नेपाले पाणिनीयव्याकरणस्य प्रयोगः, तस्य पठनपाठने, तमधिकृत्य ग्रन्थव्याख्यानटिप्पनादिलेखनम्, तदनुसारेण शिलाताम्रकर्गजादिष्वभिलेखनिर्माणञ्च लिच्छविकालतोऽद्यावधिर्निरवच्छिन्नतया जातं जायमानञ्च दृश्यते । नेपालदेशीयेन सर्वकारेण, संस्कृतनिकायेन, संस्कृतविद्यालयगुरुकुलादिभिः, संस्कृतविश्वविद्यालयेन स्वतन्त्रैर्विद्वद्भिश्चानेकेषु कार्येषु कृतेष्वपि तेषां सर्वेषामेकीकृतं विवरणमद्यावधौ कुत्रापि न लभ्यत इति दुःखस्य विषयः। ग्रन्थानामेकीकृतविवरणाभावेन तैः प्रदत्तेष्ववदानेष्वऽप्यज्ञातप्राया एव  वयम्। एषा च जटिला समस्या। तां च समस्यां समाधानार्थमेव- पाणिनीयव्याकरणव्याख्याने नेपालदेशेन किमवदानं कृतम् ? नेपालदेशेन तथाविधमवदानं कृतमिति कथं ज्ञायते ? तस्यावदानस्य किं मूल्यमिति शोधप्रश्नमुपस्थाप्य लेखोऽयं प्रकल्प्यते।  लिच्छविकाले संस्कृतं राजभाषात्वेन प्रतिष्ठितमासीत्, तदानीं चन्द्रगोमिनामकेन केनचिद् विदुषा चान्द्रव्याकरणं रचितमासीत्। तदुपरि च सुमतिपञ्जिका-शब्दलक्षणविवरणपञ्जिका-चन्द्रव्याकरणपञ्जिकादयो नैकाष्टीकाः देवनागरीरञ्जनादिषु लिपिषु संस्कृतगिरा रचिता आसन्निति विभिन्नैः प्रमाणैर्वंशावलिकारकथनैश्च प्रमाणितं भवति। लिच्छविकाले प्राप्ता द्विशताधिका संस्कृताभिलेखास्तदानीमेव समुपलब्धाष्टीकाग्रन्थाश्च एतत्प्रमाणीकुर्वन्ति मल्लकालेऽपि सृजनसमालोचनव्याख्यानटिप्पनादिप्रयोजनार्थं सहस्राधिकाः संस्कृतग्रन्था विरचिताः प्राप्यन्ते । तेषु उमानाथार्याल-पृथ्वीपालसेन-लक्ष्मणकवि-नीलदेवपन्त-सुकृतिदत्तपन्तप्रभृतिभी रचितानि ग्रन्थरत्नानि मुख्यानि स्थानानि बिभ्रति। येषां पाणिनीयानुसारि भाषिकमनुशासनं नवनवोन्मेषकं चिन्तनं चोत्तरवर्त्तिनां कृते महदुपकाराय प्रकल्पते । ततो शाहराणयोः काल समायाति । शाहकाले राम-पृथ्वीनारायण-गीवार्णादिभिरनेकैः शाहवंशीयैर्राजभिः शिलालेखस्थापनसंस्कृत- पाठशालासञ्चालन-विद्वत्पुरस्करणादिभिरनेकानि कार्याणि कृतानि। राणाशासकैरपि संस्कृतवाङ्मयस्य तदन्तर्गतस्य च पाणिनीयव्याकरणस्य च व्याख्यानाय तथा विस्ताराय  ५७ सङ्ख्यातोऽधिकभाषापाठ- शालास्थापनेन, तत्र सुव्यवस्थापनेन ग्रन्थलेखनार्थं प्रेरणेन चानेकानि कार्याणि सम्पादितानि । तदनु समागतेन प्रजातन्त्रकालेन विद्यालयस्तरे संस्कृतविषयनिर्धारणेन, शताधिकसंस्कृतमाध्यमिकविद्यालयानां गुरुकुलानाञ्च संस्थापनेन तथा महेन्द्रसंस्कृतविश्वविद्यालयस्य च स्थापनेन पाणिनीयव्याकरणव्याख्यानाय च प्रत्यक्षाप्रत्यक्षतोऽवदानं कृतं दृश्यते। अमुनैव कालेन साधारणविद्यालयानां ६-८ कक्षासु संस्कृतविषयोऽनिवार्यत्वेन दशवर्षाणि (२०५१-२०६१ मध्ये) यावद् निर्धारितानि। तत्रापि पाणिनीयमनुशासनमधिकृत्यैव संस्कृतस्य पठनपाठने सञ्चालिते। गणतन्त्रकाले च स्थानीयस्तरे शिक्षाधिकारेषु सम्प्राप्तेषु शताधिकानि गुरुकुलानि स्थापितानि, तेषां सञ्चालनव्यवस्थापनादिषु पालिकाभिर्यथाशक्यमवदानानि कृतानि क्रियमाणानि च सन्ति। प्रजातन्त्रकाले तथा गणतन्त्रकाले च महेन्द्रसंस्कृतविश्वविद्यालयेन (गणतन्त्रकालेऽस्य नाम परिवर्त्य नेपालसंस्कृतविश्वविद्यालयो जातः) तथा तत्र प्राध्यापनरतैर्विद्वद्भिः पाणिनीयं व्याकरणमाश्रित्य शताधिकानि व्याख्यानि विरचितानि विरच्यमानानि च सन्ति, स्वतन्त्रा विद्वाँन्सोऽपि पाणिनीयं व्याकरणमाश्रित्य व्याख्यानानि विरचयन्तः सन्ति। अतः पाणिनीयव्याकरणविस्ताराय तद्व्याख्यानाय च नेपालदेशीयानां विदुषां माध्यमेनैतेन देशेन महत्त्वपूर्णमवदानं कृतं वर्तत इति निष्कर्षः ।

     अस्य लेखस्य रचनायां  मूलतो भौतिकपुस्तकालयतस्तथांशतो वैद्युत्पुस्तकालयतश्च सामग्रीः सङ्कलय्य ताः परिशील्य च निष्कर्षो निष्पादितो वर्तते। अस्य रचनायां मुख्यतो गुणात्मिका पद्धतिरवलम्बिता वर्तते।  अत्र मूलतो द्वितीयकस्रोतसः सामग्र्यः सङ्कलय्य व्याख्याताः सन्ति। सामग्रीविश्लेषणं मूलतो वर्णनात्मिकया पद्धत्या जातमस्ति तथापि केषुचित् स्थानेषु व्याख्यानविश्लेषणात्मिका पद्धतिरप्यवलम्बिता वर्तते। सन्दर्भाङ्कने सन्दर्भसामग्रीसूचीनिर्माणे चात्र मुख्यतो लेखकमितिपद्धतिः (APA 7th ed.) अवलम्बिता वर्तते । तथापि सस्कृताय तस्या असङ्गत्यां प्रतीतायां क्वचित् परम्परिता पद्धतिरपि प्रयुक्ता वर्तते।

Abstract
119
PDF (Nepali)
0

Author Biography

Bhawani Shankar Bhattarai, नेपालसंस्कृतविश्वविद्यालयः

सहप्राध्यापकः-नव्यव्याकरणम्

नेपालसंस्कृतविश्वविद्यालयः-पिण्डेश्वरविद्यापीठम्, धराननेपालः

Downloads

Published

2025-08-22

How to Cite

पाणिनीयव्याकरणव्याख्याने नेपालदेशीयमवदानम्. (2025). शोधसुधा Shodh Sudha, 3(03), 1-32. https://doi.org/10.3126/ss.v3i03.83425

Issue

Section

Articles

How to Cite

पाणिनीयव्याकरणव्याख्याने नेपालदेशीयमवदानम्. (2025). शोधसुधा Shodh Sudha, 3(03), 1-32. https://doi.org/10.3126/ss.v3i03.83425