मेघदूतेऽलङ्कारानुशीलनम्

Authors

  • Krishna Raj Gyawali नेपालसंस्कृतविश्वविद्यालयः

DOI:

https://doi.org/10.3126/ss.v3i03.83513

Keywords:

अप्रकृतः, अलङ्कारः, दूतम्, प्रकृतः, प्रकृतिः

Abstract

महाकवेः  कालिदासस्य नाम न केवलं संस्कृतसाहित्ये अपितु विश्वसाहित्येऽपि स्वर्णाक्षरेणाङ्कितुं योग्यं नामो विद्यते। तेन महाकविना विरचितानि महाकाव्यखण्डकाव्यनाटकानि आधारीकृत्य अन्ये कवयः काव्यानि विरचितानि सन्ति। अस्य कवेः ‘मेघदूतम्’ इति नामाख्यो ग्रन्थः खण्डकाव्यमस्ति । अस्मिन् खण्डकाव्ये महाकविः यक्षस्य प्रियतमाया वियोगावस्थाया मन्दाक्रान्ताछन्दसा विभिन्नानामलङ्कराणां प्रयोगेण विहितं हृदयस्पर्शि वर्णनं तस्य विश्वप्रसिद्धे एकं कारणमस्ति । प्रियाया  वियोगेन देवयोनिविशेषस्य यक्षस्यापि एतादृशी अवस्था भवति चेत् सामान्यमनुष्याणां वियोगः कीदृशी भवति इति सामाजिकैरनुभूयते । अस्मिन्नालेखे ‘मेघदूतम्’ इति नामके खण्डकाव्ये कविना विभिन्नानामलङ्काराणां प्रयोगः कुत्र कुत्र विहितः, केन प्रकारेण अलङ्काराणां विन्यास कृतः इत्यनुसन्धानप्रसङ्गे विभिन्नानामलङ्कारशास्त्रिणामलङ्कारलक्षणं विविच्य अलंकारसिद्धान्तानुसारं मेघदूतेऽलङ्काराणां अनुशीलनं विधीयते । अत्र प्रयुक्ता अलङ्कारा भाषानुकूलाः, पात्रानुकूलाः, काव्यानुकूला दृश्यन्ते । अत्र विप्रलम्भ-श्रृङ्गाररसप्रतिपादने अर्थान्तरन्यासादयोऽलङ्काराः सहायका दृश्यन्ते । अतोऽलङ्कारप्रयोगदृष्ट्या मेघदूतमौचित्यपूर्णमस्ति इति निष्कर्षो निष्काशितः ।

Downloads

Download data is not yet available.
Abstract
62
PDF (नेपाली)
35

Author Biography

Krishna Raj Gyawali, नेपालसंस्कृतविश्वविद्यालयः

उपप्राध्यापकः - साहित्यम्

Published

2025-08-22

How to Cite

Gyawali, K. R. (2025). मेघदूतेऽलङ्कारानुशीलनम्. शोधसुधा Shodh Sudha, 3(03), 49–68. https://doi.org/10.3126/ss.v3i03.83513

Issue

Section

Articles