जगदम्बिकावैभवमहाकाव्ये द्वन्द्वविधानम {Conflict Legislation in Jagdambikavaibhav}
DOI:
https://doi.org/10.3126/kdk.v3i1.52072Keywords:
आन्तरिकद्वन्द्वम्, काव्यफलम् , बाह्यद्वन्द्वम्, रसाभिव्यक्तिः, सङ्घर्षःAbstract
प्रस्तुतो लेखः नेपालस्य लुम्बिनीप्रदेशान्तर्गते गुल्मीमण्डले जातेन ‘भीमकान्तपन्थी’ इति नामकेन महाकविना विरचिते ‘जगदम्बिकावैभवम्’ महाकाव्ये द्वन्द्वविधानस्य गवेषणे केन्द्रितो वर्तते । वि. सं. २०४७ तमे वर्षे विरचितं प्रथमवारं वि. सं. २०५५ तमे वर्षे प्रकाशितं पौराणिकीं कथां गृहीत्वा रचितं महाकाव्यमिदं तन्निरूपणे उल्लेखनीयं वर्तते । अत्र तस्यैव महाकाव्यस्य परिचयेन सह गवेषणीयविषयत्वेन जगदम्बिकावैभवकाव्ये द्वन्द्वविधानं कीदृशम् ? इति समस्यामुपस्थाप्य प्रस्तुते महाकाव्ये तदन्वेषणमुद्देश्यरूपेण स्थापितं विद्यते । तस्मिन्नेव व्रmमे प्रस्तुते महाकाव्ये निरूपितमान्तरिकं बाह्यञ्च द्वन्द्वं विस्तरेण विवेचितं वर्तते । अध्ययनमिदं गुणात्मकं किल । अतोऽत्र पुस्तकालयीयया पद्धत्या सामग्रीणां सङ्कलनं विधाय निगमनात्मकेन विधिनाध्ययनं कृतं विद्यते । विषयस्य विश्लेषणे सैद्धान्तिकाधारतया पाश्चाŒयो द्वन्द्वसिद्धान्तो गृहीतोऽस्ति । गदम्बिकावैभवमहाकाव्ये प्रस्तुतं पात्रगतमान्तरिकं बाह्यमपि द्वन्द्वं समीक्ष्य तयोः काव्यस्य प्रधानफलसिद्धौ, रसाभिव्यक्तौ, कार्यावस्थायाः निर्वहणे, कथायां रोमाञ्चकतासिद्धये च साहाøयं विस्तरेण प्रदर्शितं वर्तते । कथायां कौतुकवृद्धये रोमाञ्चकतासिद्धये च सफलेन द्वन्द्वेन युक्तं महाकाव्यमिदं द्वन्द्वविधानस्य दृष्ट्या विशिष्टं वर्तते इति निष्कर्षः स्थापितो विद्यते । जगदम्बिकावैभवे द्वन्द्वविधानसम्बद्धायाः जिज्ञासायाः समाधानाय प्रकृतमध्ययनं प्राधान्येन उपयोगि वर्तते तथैव च भविष्यति काव्यान्तरेषु एतत्प्रकारकान्वेषणाय एवमेव पक्षान्तरमाश्रित्य प्रकृतमहाकाव्यस्य समीक्षणाय च सहायकं भवितुं शक्नोति ।
Downloads
12
9