संस्कृतवाङ्‍मयसम्बद्धशोधप्रबन्धाद्यभिलेखनशैली

Authors

DOI:

https://doi.org/10.3126/kdk.v6i01.90079

Keywords:

उद्धरणप्रयोगः, गर्भटिप्पणीप्रयोगः, शोधप्रबन्धाद्यभिलेखनशैली , संख्याङ्कनं, सन्दर्भग्रन्थसूचीनिर्माणशैली

Abstract

अनुसन्धानात्मकलेखोऽयं संस्कृतवाङ्‍मयानुसन्धानप्रबन्ध-शोधलेखादीनामभिलेखनशैलीविषये केन्द्रितोऽस्ति । बह्वायासविहिता-नुसन्धानोपलब्धिं शोधप्रबन्ध-शोधपत्र-शोधलेखादिरूपेण प्रस्तोतुं शोधप्रबन्धादिप्रस्तुतिशैलीविषयक-ज्ञानमावश्यकं भवति । अत्र लेखे शोधप्रबन्धादिनिर्माणक्रमेऽवलम्बनीयायाः शैल्या विषये, तत्रापि उद्धरणप्रयोग-सन्दर्भटिप्पणी-सन्दर्भग्रन्थसूचीनां विषये, शोधप्रबन्ध-गतोपशीर्षकादिषु संख्याङ्कनं कर्तव्यं न वेति विषये च विशेषाध्ययनं कृतम् । संस्कृतवाङ्‍मयानुसन्धानप्रबन्धादिषूद्धरणप्रयोगः कथं कर्तव्यः ? सन्दर्भटिप्पणी कथं कर्तव्या ? सन्दर्भग्रन्थसूची कथं निर्मातव्या ? उपशीर्षकादिषु संख्याङ्कनं कर्तव्यं न वा ? इत्येतादृशानां समस्यामूलकप्रश्नानां समाधानान्वेषणायात्र प्रयत्नो विहितः । तदर्थञ्च गुणात्मकस्वरूपेऽस्मिन्ननुसन्धाने संस्कृतवाङ्‍मयान्तर्गतानां विविध-विषयाणां मौलिकग्रन्थेभ्यः, शोधप्रबन्धेभ्यः, शोधविधिपद्धति-सम्बद्धग्रन्थेभ्यः, शोधलेखेभ्यश्च   स्थालीपुलाक-न्यायेन तथ्यरूपा आवश्यकसामग्रीः सङ्कलय्य तासां वर्णनं, विश्लेषणञ्च कृत्वा निष्कर्षः स्थापितोऽस्ति । अतोऽस्मिन् मूलतो वर्णनात्मको विश्लेषणात्मकश्च अध्ययनविधिरवलम्बितोऽस्ति । अत्र च यथासम्भवं शोधविधि-प्रविधि-पद्धतिसम्बद्धाः पूर्वस्थापिताः सिद्धान्ताः, तदसम्भवस्थले च पूर्वाचार्यप्रयोगाधृताः स्वकीयावधारणाः पर्याधारत्वेन गृहीताः । प्राप्ततथ्यानां विश्लेषणेन चात्र स्थापितो निष्कर्ष इत्थमस्ति– उद्धरणप्रयोगसन्दर्भे पंक्तित्रयाकारवदुद्धरणं लघु, तदधिकाकारवदुद्धरणं दीर्घमित्यवधेयम्  । श्लोकोद्धरणसन्दर्भे तु  पंक्तिद्वयात्मकैकः श्लोकोऽपि दीर्घोद्धरणवत् स्थापनीयः । गर्भटिप्पणीसन्दर्भे लेखकप्रधानानां गद्यात्मकानामाधुनिकस्वरूपाणां ग्रन्थानां स्रोतःसन्दर्भप्रदर्शनाय एपिएशैल्यनुरूपाया  गर्भटिप्पण्याः प्रयोक्तुं शक्यत्वेऽप्यपौरुषेयाणां /गौणीभूतलेखकानां, श्लोकसूत्रात्मकानां प्राचीनग्रन्थानां कृते एपिएशैल्यनुपयुक्ता । सन्दर्भग्रन्थसूचीनिर्माणसन्दर्भे वेदोपनिषत्पुराणा-नामपौरुषेयग्रन्थानां सन्दर्भग्रन्थसूचीप्रविष्टिक्रमे  ग्रन्थनाम, लेखकादिनाम (अस्ति चेदेव), प्रकाशनस्थानम्, प्रकाशकनाम, प्रकाशनवर्षश्चेति चत्वारि पञ्च वा प्रमुखतत्त्वानि, लेखक/सम्पादकप्रधानानां ग्रन्थानां कृते च लेखक/सम्पादकनाम, ग्रन्थशीर्षकम्, प्रकाशनस्थानम्, प्रकाशकनाम, प्रकाशनवर्षश्चेति पञ्च प्रमुखतत्त्वानि क्रमशः समावेश्यानि । सामग्रीणां व्यवस्थिततायै शोधप्रबन्धादिगतोपशीर्षकादिषु सङ्ख्याचतुष्टयं यावत्  सङ्ख्याङ्कनं, उक्तसंख्यायुत-प्रशीर्षकान्तर्गतेष्वन्येष्वपि गौणोपशीर्षकेषु सत्सु तत्राक्षराङ्कनं कर्तव्यम् । संस्कृतशोधशैल्याः पूर्णविवरणाय च संस्कृतवाङ्‍मयसम्बद्धानुसन्धानक्षेत्रे मौलिकशैलीपुस्तिकायाः प्रकाशनमावश्यकमिति ।

Downloads

Download data is not yet available.
Abstract
0
PDF (नेपाली)
0

Published

2026-01-28

How to Cite

हरिलालपौडेलःHarilal Poudel. (2026). संस्कृतवाङ्‍मयसम्बद्धशोधप्रबन्धाद्यभिलेखनशैली. Kaumodaki: Journal of Multidisciplinary Studies, 6(01), 120–142. https://doi.org/10.3126/kdk.v6i01.90079

Issue

Section

Articles