संस्कृतव्याकरणे मुनित्रयावदानसमीक्षणम्

Authors

DOI:

https://doi.org/10.3126/kdk.v6i01.90125

Keywords:

अनुबन्धः, कुशाग्रबुद्घिः, कौमुदी, प्रणाली, विकरणः

Abstract

संस्कृतव्याकरणशास्त्रस्य सुदीर्घपरम्परा विद्यते । सामान्यविषयादारभ्य सूक्ष्मविषयपर्यन्तं व्याकरणशास्त्रस्य प्रभावो  दृश्यते । ध्वनिवर्णरूपपदपदावलिवाक्यांशादिविवेचनपक्षतः दार्शनिकचिन्तन-पर्यन्तं व्याकरणशास्त्रं करोति । भाषायाः परापश्यन्तिमध्यमाव्यक्तवाणीतः व्यक्तवैखरीवाणीपर्यन्तं व्याकरणशास्त्रस्य चिन्तनं विद्यते । भाषणाय भाषापरिष्काराय च संस्कृतव्याकरणस्य महती भूमिका दृश्यते । संसारे प्रवृत्तानां सर्वासामपि विद्यानाम्मूलं परमेश्वरोपदिष्टो वेद एवास्ति । व्याकरणं वेदस्य षट्स्वङ्गेषु मुखमस्ति । तेन श्रुतिस्मृतिपुराणादिषु व्याकरणस्य प्राधान्यं दृश्यत एव ।  पुरावृत्तोत्खनने तु संस्कृत-व्याकरणाध्ययनकार्ये विधातुः नाम सर्वादौ आयाति । कालान्तरे जगति पाणिनिकात्यायनपतञ्जलीनां नाम त्रिमुनीति समूहवाचकत्वेनायाति । आदौ बहुविदुषां अवदानं संस्कृतव्याकरणे अवश्यमेवास्ति । पुरा विद्वद्भिः संस्कृतव्याकरणाशास्त्रस्य अध्ययनाध्यापनसंस्कारस्य स्थापना कृता । तस्य संस्कारस्य प्रवर्धन-संवधर्नन-परिष्कारादिकार्ये पाणिनि-कात्यायन-पतञ्जलीनामेव महत्प्रयासः सञ्जातः येन संस्कृत-व्याकरणाशास्त्रं समृद्घमद्यपर्यन्तमस्ति । लघुसूत्रस्यप्रारम्भाद् गम्भीर-व्याख्यापर्यन्तं संस्कृतव्याकरणस्य व्रज्या गता । पाणिनिना महता प्रयासेन महेश्वरप्रसादात् चतुर्दश सूत्राणि लब्धानि ततः अष्टाध्यायीति नाम्नः सूत्रग्रन्थस्य निर्मितिपश्चात् कात्यायनेन वार्तिकरचना कृता । एवं रीत्या सूत्रप्रणयनेन वार्तिकप्रणयनेन च संस्कृतव्याकरणबोधे अपेक्षितसारल्याभावात् सूत्राणां सुष्ठुतया परिष्काराय नैकविधमतमतान्तरगम्भीरमन्थनपूर्वकं विश्लेषणाय च पतञ्जलिना महाभाष्यं प्रणीतम् । अनया रीत्या उत्तरोत्तरं व्याकरणाशास्त्रस्य नाव्यं रूपं समागतम् । अष्टाध्यायी-पाणिनीयशिक्षा-जाम्बवतीविजय-द्विरूपकोश-धातुपाठ-गणपाठ-उणादिसूत्रपाठ-लिङ्गानुशासनम्-अष्टाध्यायी-स्वोपज्ञवृत्तिप्रभृतयः ग्रन्थाः पाणिनिना विरचिताः । वार्त्तिकलेखनमेव कात्यायनस्य महत्कार्यमस्ति । पाणिनिसूत्राणां वार्तिकनेन अनेन विवेचनं कृतम् । पाणनीयसूत्राण्याधारीकृत्य रचितं वार्त्तिकपाठात्मकस्वरूपमेव महत्त्वपूर्णमस्ति । युधिष्ठिरमीमांशकानुसारं कात्यायनस्य समग्रवार्त्तिकग्रन्थ नोपलभ्यत इति ज्ञायते । तथैव पतञ्जलिना पाणिनीयसूत्राणां उत्कृष्टा व्यवहारोपयोगिनी व्याख्या कृता सा संस्कृतजगति महाभाष्येति नाम्ना प्रसिद्घा विद्यते । तत्र सतर्कं सोदाहरणं पाणिनीयसूत्राणां प्रत्येकपदानां विवेचनं कृतं वर्तते । निदानसूत्रम्, योगदर्शनम् महाभाष्यञ्चेति पतञ्जलेः मुख्यग्रन्थाः सन्ति । युधिष्ठिरानुसन्धानात्मकग्रन्धानुसारं महानन्दमिति महाकाव्यञ्चानेन लिखितमिति प्राप्यते । बालतः वृद्घपर्यन्तं मनुजानां कृते सामान्यतः दर्शनपर्यन्तविषयस्य ज्ञानं मुनित्रयस्य व्याकरणावदाने लब्धम् । लेखेऽस्मिन् मुनित्रयस्य संस्कृतव्याकरणे कृतावदानस्य समीक्षा कृता वर्तते ।  प्रस्तुतानुसन्धानकार्यं विश्लेषणात्मकविधिना सम्पादितमस्ति । संस्कृतव्याकरणे मुनित्रयस्यावदानं ज्ञात्वा समीक्षणमेवास्य लेखस्योद्देश्यं वर्तते ।

Downloads

Download data is not yet available.
Abstract
0
PDF (नेपाली)
0

Published

2026-01-28

How to Cite

नारायणजोशी Narayan Joshi. (2026). संस्कृतव्याकरणे मुनित्रयावदानसमीक्षणम्. Kaumodaki: Journal of Multidisciplinary Studies, 6(01), 29–42. https://doi.org/10.3126/kdk.v6i01.90125

Issue

Section

Articles